Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 280 आत्मानमसङ्गं ज्ञात्वेतरव्यवहारवत् वैदिकशुभकर्माद्यनुष्ठानमपि देहादिधर्म इत्येव ज्ञात्वा विदुषा क्रियमाणं शुभं कर्माप्याभासरूपमेव। तस्यापि ज्ञानेन सह विरोधो नास्ति। भाष्यकारादिभिः कर्मोपासनयोर्ज्ञानेन यो विरोध उक्तः सः ‘ आत्मा कर्ता भोक्ता च’ इति ज्ञानपूर्वकं क्रियमाणकर्मोपासनविषयः। न त्वाभासरूप कर्मोपासनविषयः। (४१२) मन्दबोधस्य कर्मोपासन्योश्च विरोध एव ——- मन्दबोधस्य त्वाभासरूपे अपि कर्मोपासने… Continue reading Vicharasagara-Page-280
Tag: #vicharasagara
Vicharasagara-Page279
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 279 भेदबुद्ध्योपासनमनुष्ठीयते। ते द्वे अपि बुद्धी सर्वं खल्विदं ब्रह्म इति बुद्धिं दूरीकृत्यैव भवतः। तस्मात्कर्मोपासने ज्ञानस्य विरोधिनी। यद्यपि ज्ञानी आत्मानमसङ्गतया जानाति तथापि भोजनादिरूपं देहव्यवहारं वा, जनकादिवत् ततोऽप्यधिकं राज्यपालनादिव्यवहारं वा करोत्येव। तस्य व्यवहारस्य ज्ञानं न विरोधि भवति। न वा व्यवहारो ज्ञानस्य विरोधी भवति। तथाहि यदात्मस्वरूपं ज्ञानेनासङ्गतया… Continue reading Vicharasagara-Page279
Vicharasagara-Page278
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 278 नयोः प्रवर्तितुं १- नार्हति। कर्मोपासन फलभूतान्तःकरणशुद्धिनैश्चल्ये श्वणेनैव तस्य सिद्धे भवतः। श्रवणस्यावृत्यैवान्तःकरणदोषस्य निवृत्त्या तस्येह जन्मनि जन्मान्तरे वा ब्रह्मलोके वा ज्ञानं सिद्ध्येत्। आवृत्तिर्नामाभ्यासः। पुनः पुनरनुष्ठानम्। साधनानुष्ठाने प्रयत्नधारेति यावत्। श्रवणं परित्यज्य कर्मोपासनयोः प्रवर्तमानः २- आरूढपतित इत्यभिधीयते। इत्थं च ज्ञानिनः, उत्तमजिज्ञासोश्च कर्मोपासनयोरधिकारो नास्ति। मन्दजिज्ञासुर्यो वेदान्तश्रवणे प्रवृत्तस्तस्याप्यधिकारो नास्ति।… Continue reading Vicharasagara-Page278
Vicharasagara-Page-277
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 277 (आ – ४०८-४०९) दृढज्ञानिनामदृढज्ञानिनामुत्तमजिज्ञासूनां च कर्मोपासनयोरनधिकारः —– (४०८) मन्दबोधवानुत्तमजिज्ञासुरपि कर्मोपासनयोर्न प्रवर्तते – (१) यस्य तु मन्दबोधोऽस्ति स मनननिदिध्यासने एव कुर्यात्। तेन कर्मोपासने न कर्तव्ये। यस्य मन्दबोधोऽस्ति स उत्तमजिज्ञासुः। तस्य मनननिदिध्यासने विना कर्तव्यान्तरं नास्ति। सोऽयमर्थः शारीरिके सूत्रकारैर्भाष्यकारैश्च प्रतिपादितः। (ब्र सू भा – ४-१०-२) (२)… Continue reading Vicharasagara-Page-277
Vicharasagara-Page-276
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 276 ब्रह्माकारा वृत्तिः पुनः पुनरुदियात्। कर्मोपासनाभ्यां ब्र्हमाकारा वृत्तिर्न जायेत। अन्तःकरणस्य शुद्धिनैश्चल्यसंपादनद्वारैव कर्मोपासने ज्ञाने उपयुज्येते, नान्येन प्रकारेण। विदुषोऽन्तःकरणे तु पापचाञ्चल्ये न स्तः। अविद्या हि रागद्वेषादिद्वारा पापचाञ्चल्ययो: कारणं भवति। सा चाविद्या ज्ञानेनैव नश्यति। तस्माद्विदुषः पापचाञ्चल्ययोरभावात् कर्मोपासनाभ्यां नास्त्युपयोगः। (४०७) ज्ञानिनाप्यन्तःकरणचाञ्चल्यनिवृत्तये उपासनमनुष्ठेयमित्याक्षेपस्तत्समाधानञ्च —- यद्यत्रैवमाशङ्क्येत – ‘रागद्वेषादयोऽन्तःकरणस्य सहजाधर्माः। यावत्कालपर्यन्तमन्तःकरणमस्ति तावत्कालपर्यन्तं… Continue reading Vicharasagara-Page-276
Vicharasagara-Page-275
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 275 पुण्यपापे तदाश्रयान्तःकरणम् च परमार्थतो न सन्ति। “अतोऽन्यदार्तम्।” (बृ: ३-७-२३) “न तु तद् द्वितीयमस्ति।” (बृ: ४-३-२३-३0) “यत्र नान्यत्पश्यति।” (छा:७-२४-१) इत्यादिश्रुतिभ्यः। अविद्यया तानि मिथ्या प्रतीयन्ते। साऽविद्या मिथ्याप्रतीतिश्च ज्ञानवतो न स्तः। तस्माच्छुभकर्मत्यागेनाशुभकर्मानुष्ठानेन वा ज्ञानिनः पापं न संभवेत्। “अहं ब्रह्मेति विज्ञानात्फलकोटिशतार्जितम्। सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत्॥ यत्कृतं स्वप्नवॆलायां… Continue reading Vicharasagara-Page-275
Vicharasagara-Page-274
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 274 जलेनोत्पन्नौ वृक्षो जलेन रक्ष्यते। जलसंबन्धाभावे वृद्धोऽपि वृक्षः शुष्यति, तथा कर्मोपासनाभ्यामुत्पन्नं ज्ञानं कर्मोपासनाभ्यां रक्षितं भवति। यदि ज्ञानी कर्मोपासने न कुर्यात्तदा पुनरप्यन्तःकरणमशुद्धं चञ्चलं च भवेत्। शुष्कभूमौ वृक्ष इवाशुद्धे चञ्चले चान्तःकरणे पूर्वोत्पन्नमपि ज्ञानं नश्येत्। तस्माज्ज्ञानवानपि कर्मोपासने अनुतिष्ठेत् इति। तन्न युज्यते – आभाससहिते अथवा चैतन्यविशेष्टेऽन्तःकरणे ‘अहमसङ्गं ब्रह्मैवास्मि’ इति या वृत्तिरुदेति सैव वेदान्तस्य फलरूपं ज्ञानम्। तच्च… Continue reading Vicharasagara-Page-274
Vicharasagara-Page-273
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 273 तस्मात् केवलं ज्ञानं मोक्षहेतुः। कर्मोपासनज्ञानानि त्रीणि न मोक्ष कारणानि। (४०३) कर्मोपासने ज्ञानस्य साधने न मोक्षस्य – वृक्षदृष्टान्तोऽप्यसङ्गतः – पूर्वपक्षिणा प्रदर्शितो वृक्षदृष्टान्तोऽसङ्गतः। यद्यपि जलसेचनं वृक्षस्योत्पत्तौ रक्षणे च हेतुस्तथापि फलोत्पत्तौ न हेतुः। तथाहि वृद्धो यो वृक्षस्तस्य जलसेचनं रक्षणायैव न फलाय। जलेन पुष्टो यो वृक्षः स फलहेतुरिति सत्यम्। न तु जलसेचनं फलोत्पत्तिं प्रति हेतुः।… Continue reading Vicharasagara-Page-273
Vicharasagara-page-272
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 272/२७२ दृष्टफलस्योत्पत्तिः यावत्या सामग्र्या साध्यतया प्रत्यक्षेण प्रतीयते तावती सामग्री दृष्टफलस्य हेतुरित्युच्यते। यथा तुरीतन्तुवेमादिभिः पटस्योत्पत्तिः प्रत्यक्षेति तुरीतन्तुवेमादिकं पटस्य हेतुः। यथा च केवलभोजनेन तृप्तिरूपं फलं प्रत्यक्षमिति केवलभोजनमेव तृप्तिहेतुः। यथा वा केवलाधिष्ठानज्ञानात् भ्रान्तिनिवृत्तिः प्रत्यक्षेण प्रतीयत इत्यधिष्ठानज्ञानमेव भ्रान्तिनिवृत्तिहेतुः। यथा रज्जुज्ञानं भ्रान्तिनिवृत्तौ नान्यदपेक्षते तथा बन्धभ्रान्तेरधिष्ठानभूतनित्यमुक्तात्मज्ञानमपि बन्धभ्रान्तिनिवृत्तौ कर्मोपासने नापेक्षते। (४०२) केवलं ज्ञानमेव मोक्षसाधनमिति शास्त्रवचनमपि – ज्ञानफलस्य मोक्षस्य स्वर्गादिवल्लोकविशेषत्ववर्णनेनादृष्टरूपत्वाङ्गीकारे… Continue reading Vicharasagara-page-272
Vicharasagara-page-271
विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 271/२७१ (३९९) आकाशे पक्षिपतनदृष्टान्तोऽत्र न युज्यते – पक्षिणो द्वावपि पक्षौ एककाले एव स्तः। तस्मान्न तयोः परस्पर विरोधः। ज्ञानस्य कर्मोपासनाभ्यां विरोधोऽस्ति। तस्मादेककालावस्थानं न तयोः संभवति। (आ. ४००-४१३) मोक्षमुद्दिश्य ज्ञानस्य कर्मोपासनयोरपेक्षाभावः —-‘ (४००) सेतुदर्शनदृष्टान्तः प्रकृते न युज्यते – मोक्षं प्रति ज्ञानस्य कर्मोपासनयोः साहाय्यविषये प्रदर्शितः सेतुदर्शनदृष्टान्तो न सङ्गच्छते। सेतुदर्शनं न दृष्टफलस्य हेतुः, किन्त्वदृष्टफलस्यैव हेतुः। यत्… Continue reading Vicharasagara-page-271