Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 281 (आ- ४१४-४१७) उपदिष्टार्थसङ्ग्रहः ——- (४१४) जीवस्वरूपम् – ‘ जगत्कर्तेश्वरः। स तव स्वरूपान्न भिन्नः। त्वं सच्चिदानन्दरूपं ब्रह्मैवासि’ इति प्रागुपदिष्टमेवार्थं पुनरप्याचार्यः कृपया शिष्य़ं प्रति सङ्ग्रहेणोपदिशति ‘हे सोम्य! त्वं दैन्यं परित्यज्य निजस्वरूपं जानीयाः। जन्मादिरहितं शुद्धं ब्रह्मैव त्वमसि। दृश्यं समस्तम् जगत् त्वमेव प्रकाशयसि। स्वाज्ञानेन जगत्सर्वंत्वमेव सृजसि।… Continue reading Vicharasagara-Page-281
Tag: #vasudevendraSaraswati
Vicharasagara-Page-286
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 286 हती लक्षणा, (३) भागत्यागरूपा लक्षणा इति त्रिविधां लक्षणामाहुः। तत्राद्यं द्वयं महावाक्यार्थज्ञाने नोपयुज्यते। महावाक्यं हि भागत्यागलक्षणया बोद्धुर्निजस्वरूपभूतम् ब्रह्म बोधयति। (४२१) लक्षणायाः सामान्यस्वरूपं निवेदनीयमिति शिष्यप्रश्नः – शिष्यः पृच्छति – ‘स्वामिन्! सामान्यज्ञानानन्तरं हि विशेषजिज्ञासा भवति। यथा ‘ब्राह्मणोऽयम्’ हि सामान्यतो ज्ञाते तदनन्तरं… Continue reading Vicharasagara-Page-286
Vicharasagara-Page-290
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 290 यस्य सान्निध्याद्दाहो न जायते स प्रतिबन्धकः। यस्य सान्निध्यात्सत्यपि प्रतिबन्धे दाहो जायते स १ उत्तेजकः। हे सौम्य! अग्नाविव जलादिसकलपदार्थेष्वपि स्थितां तत्कार्यजननानुकूलां शक्तिं जानीहि। विना तु शक्तिं न केनापि कारणेन किमपि कार्यं जन्यते। इत्थं शक्तेः प्रयोजनं निरूपितम्। अग्निस्वरूपातिरिक्त शक्तिर्नास्तीत्याक्षेप… Continue reading Vicharasagara-Page-290
Vicharasagara-Page-289
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 289 आक्षेपः —– वर्णसमुदायात्मकपदातिरिक्त शक्त्यभावादीश्वरेच्छैव शक्तिः। वह्नेः स्वरूपातिरिक्तया शक्तिर्नाम नोपलभ्यते। दाहहेतुभूतं वह्निनिष्ठसामर्थ्यमेव वह्नेः शक्तिरिति पूर्वोक्तं न युक्तम्। वह्नौ दाहहेतुत्वं केवलमस्ति। अप्रसिद्धं सामर्थ्यं वह्नौ कल्पयित्वा तस्य दाहकारणत्वकल्पनात् अग्निनिष्ठप्रसिद्ध दाहकारणत्वपरित्यागाच्च न किञ्चिदप्यस्ति प्रयोजनम्। यथा दृष्टान्तेऽग्नौ शक्तिर्नाम न काचिदतिरिक्ता भाति तथा दार्ष्टान्तिके… Continue reading Vicharasagara-Page-289
Vicharasagara-Page-288
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 288 (आ- ४२३ -४४०) शक्तिलक्षणम् – (४२३) न्यायमतेन शक्तिलक्षणम् – ‘घटः’ इत्येतत्पदश्रवणमात्रेण सकलकलशरूपस्यार्थस्य ज्ञानं सर्वेषां भवतु’ इतीश्वरेच्छैव न्यायशास्त्रे शक्तिरित्युच्यते। (४२४) पदनिष्ठमर्थज्ञानोत्पादनसामर्थ्यं पदशक्तिरिति सिद्धान्ते शक्तिलक्षणम् — (१) घटपदं शृण्वतः कलशरूपार्थबोधजननानुकूलं घटपदनिष्ठं सामर्थ्यमेव घटपदस्य शक्तिः। एवमेव पटपदं शृण्वतः वस्त्ररूपार्थबोधजननानुकूलं पटपदनिष्ठं सामर्थ्यमेव… Continue reading Vicharasagara-Page-288
Vicharasagara-Page-287
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 287 ‘शक्तिः’ ‘२-लक्षणा’ इति द्विविधा। तयोः स्वरूपं सलक्षणं वर्ण्यमानं शृणु इति गुरुरवदत्। ————————————- १- शब्दगतं यत् स्वार्थावबोधनसामर्थ्यं तदेव शब्दस्य शक्तिः इति वर्ण्यते। सा शक्तिरूपा वृत्तिः कपालद्वयमध्यस्थितकपालसंयोगवत्, कार्यकारणात्मकपदार्थद्वयमध्यस्थितसमवायसंबन्धवत्, अथवा तादात्म्यसंबन्धवच्च शब्दार्थयोर्मध्येऽस्ति। तस्मात् सेयं शक्तिः शब्दस्यार्थेन सह विद्यमानः शक्तिवृत्तिरूपः साक्षात्संबन्धो भवति।… Continue reading Vicharasagara-Page-287
Vicharasagara-Page-285
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Previous page Next page Page 285 बुद्धिर्न जायत एव। यथा अपरोक्षतया मिथेति ज्ञाते रज्जुसर्पे सत्यत्वबुद्धिः पुनर्नोदेति तथा ज्ञानिनः पुनरपि विषये सत्यत्वबुद्धिर्न जायते। इत्थम् ज्ञानिनो रागस्योत्पत्तिर्वैराग्यस्य निवृत्तिश्च न संभवतः। तस्माज्ज्ञानिनो वैराग्यं दृढं भवति। (३) विषयदोषदृष्टिजन्यमज्ञानिनो वैराग्यं तु कालेन दूरीभवेत्। तथाहि, यस्मिन् विषये दोषदृष्टिर्जायते तस्मिन्नेव विषये… Continue reading Vicharasagara-Page-285
Vicharasagara-Page-284
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Previous page Next page Page 284 लिङ्गम्। वैराग्यं च ज्ञानिनो लिङ्गम्। यद्यप्यज्ञानिनोऽपि वैराग्यमुत्पद्यते तथापि तस्य वैराग्यं ज्ञानिवैराग्याद्विलक्षणम्। हे सोम्य! शब्दादिविषयेषु सत्यत्वभ्रान्तिः, रज्जुसर्पवद्विषयो भ्रमरूप इति निश्चयबुद्धिश्च क्रमेण, वायुर्लतामिव, रागं वैराग्यं च सदा चालयतः। रागवैराग्योः शैथिल्यं न जनयत इति यावत्। विषयेषु सत्यत्वबुद्ध्या रागस्य शैथिल्यं दूरीक्रियते। विषयेषु… Continue reading Vicharasagara-Page-284
Vicharasagara-Page-283
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 283 उक्तमेवार्थं पुनरपि संक्षिप्याह गुरुः – हे सोम्य! त्वं विनाशिदेहादिसङ्घातरूपो नासि। किन्त्वविनाशिब्रह्मरूपोऽसि। १- वृक्ष रूपः संसारो मिथ्या। यथा नभसि नैल्यमधोमुखेन्द्रनीलकटाहरूपत्वादिकं चाविद्यमानमपि मिथ्या प्रतीयते तथा संसारोऽप्यात्मन्यविद्यमानोऽपि मिथ्या प्रतीयते। तथा चोक्तं भागवते – अविद्यमानोऽप्यवभासते द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा । तत्कर्मसंकल्पविकल्पकं मनॊ बुधो निरुन्ध्यादभयं ततः स्यात्… Continue reading Vicharasagara-Page-283
Vicharasagara-Page-282
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 282 ज्ञानं नोदियात्। तस्मात्तासां निवृत्तिर्जिज्ञासोरवश्यमपेक्षिता। इति जिज्ञासोर्हेयवर्गोपदेशः। (४१६) ज्ञानस्य बहिरङ्गसाधनोपदेशः —– विवेकः, वैराग्यं, शमादिषट्कसंपत्तिः, मुमुक्षुत्वं, इत्येतानि चत्वारि ज्ञानस्य साधनानि। तेषु विवेकः प्रधानं साधनम्। अतःप्रथमं तस्य कीर्तनम्। विवेकेनैव वैराग्यादिकमुत्पद्यते। अतश्चाचार्यः शिष्याय विवेकमेव प्रथममुपदिशति – हे सोम्य! संसार समुद्रं मृगतृष्णिकाजलसमं मिथ्येति वारं वारं चिन्तय। संसारस्य… Continue reading Vicharasagara-Page-282