Vicharasagara-Page-300

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 300 (४३७) सामर्थ्यरूपशक्तिवादिमतेऽपि न दोषः – तथाहि – मृत्पिण्डे घटोत्पादनसामर्थ्यरूपशक्तिरेवास्ति, न तु तैलोत्पादनसामर्थ्यरूपशक्तिः। तस्मान्मृत्पिण्डाद् घट एवोत्पद्यते, न तैलम्। तथा तिलेषु तैलोत्पादनसामर्थ्यरूपा शक्तिरेवास्ति न तु… Continue reading Vicharasagara-Page-300

Vicharasagara-Page-299

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                Page 299 तस्माद्वाच्यवाचकयोरत्यन्तभेदेऽपि नास्ति दोषः। तयोः भेदसहिताभेदरूपतादात्म्यसंबन्धस्तु न घटते, भेदाभेदयोः परस्परविरोधित्वात्। तयोरेकत्र सामानाधिकरण्यासंभवाच्च। (आ – ४३५ – ४३७) उपादानकारणतत्कार्ययोर्भेदाभेदरूप तादात्म्यसंबन्धो दुर्घटः — (४३५) भेदाभेदयोः परस्परविरोधित्वात्… Continue reading Vicharasagara-Page-299

Vicharasagara-Page-298

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 298 द्युलोकादयोऽग्नित्वेन श्रद्धादयश्चाहुतित्वेनोपास्यन्ते। एवमेव ओमित्यक्षरविषयकब्रह्मोपासनमुक्तम्। तत्र ओमित्यक्षरस्य वस्तुतो ब्रह्मस्वरूपत्वाभावेऽपि ब्रह्मस्वरूपत्वेनोपास्यत्वमुपपद्यते। उपासनावाक्ये वस्तुन अभेदो नापेक्ष्यते। किन्तु भिन्नं वस्त्वप्यभिन्नतयोपास्यते। विचार्यमाणे ब्रह्मवाचकस्योङ्कारस्य स्ववाच्यब्रह्मणा सहाभेदो युज्यते च। कलशादिजडरूपार्थवाचकानां घतादिपदानां तु स्ववाच्यजडरूपार्थैरभेदो न युज्यत एव। तथापि सर्वेषां नामरूपाणां ब्रह्मणि कल्पितत्वात्, ब्रह्म सर्वाधिष्ठानं भवति। ओम्कारोऽपि… Continue reading Vicharasagara-Page-298

Vicharasagara-Page-297

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 297 स्वस्मिन्नभेदः परस्मिन् भेदश्च यद्यप्यस्ति, तथापि यत्राभेदोऽस्ति तत्र नास्ति भेदः। यत्र भेदोऽस्ति, तत्र नास्त्यभेदः, इत्यभिप्रायेणैकस्य वस्तुनो भेदाभेदावेकस्मिन्नधिकरणे विरुद्धावित्युच्यते। किञ्च भेदाभेदौ परस्परं विरोधिनौ। एकस्मिन् वस्तुनि यस्य भेदोऽस्ति तस्याभेदः, यस्याभेदोऽस्ति तस्य भेदश्च विरुद्ध एव। तस्मात् वाच्यवाचकयोः गुणगुणिनोः, जातिव्यक्तयोः, क्रियाक्रियावतोः उपादानकारणतत्कार्ययोश्च भेदाभेदरूपतादात्म्यसंबन्धाभ्युपगमोऽसङ्गत… Continue reading Vicharasagara-Page-297

Vicharasagara-Page-296

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                  Page 296 कुलालदण्डादिकम्। तस्य घटादिकार्येण सहात्यन्तभेद एवास्ति। उपादानकारणभूतमृत्पिण्डित कार्यभूतघटयोस्तु भेदसाहिताभेद एवास्ते। मृत्पिण्डाद् घटः यद्यत्यन्तभिन्नः स्यात् तर्हि अत्यन्तभिन्नतैलादिवत् घटोऽपि मृत्पिण्डान्न जायेत। उपादानकारणस्य सकार्येण सहात्यन्ताभेदो यदि… Continue reading Vicharasagara-Page-296

Vicharasagara-Page-295

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 295 वर्तन्ते। तथैव ‘ओम्’ इत्यक्षररूपं पदमपि वाचि वर्तते। तदर्थभूतं परं ब्रह्म तु न वाचि वर्तते। किन्तु वाचो बहिः स्वे महिमनि प्रतिष्ठितम्। ब्रह्मणो व्यापकत्वेन (१) वाचि तदभावेऽपि ब्रह्मण्येव वाक् प्रतिष्ठिता भवति। न तु वाचि ब्रह्म। इत्थं पदं वाचि वर्तते। अर्थो… Continue reading Vicharasagara-Page-295

Vicharasagara-Page-294

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 294 सहितोऽभेदो वर्तते तथैव उदकं, वनं, नीरं, जीवनमित्यादिपदानां जलरूपार्थेन सह भेदसहितोऽभेदो वर्तते। उदकशब्दजलरूपार्थयोरत्यन्तभेदसत्वे, यथा उदकमित्यादिशब्दादत्यन्तभिन्ना अग्न्याद्या अर्थाः उदकमिति शब्दान्न प्रतीयन्ते तथा जलरूपार्थोऽपि उदकादिपदैर्न प्रतीयेत। अतो नात्यन्तभेदोऽस्ति। उदकशब्दजलरूपार्थयोरत्यन्ताभेदोऽपि न। अत्यन्ताभेदे सति जलसंबन्धेन मुखे शैत्योत्पत्तिवत् उदकादिपदोच्चारणेनापि मुखे शैत्यं जायेत। परन्तूदकादिपदोच्चारणेन मुखे… Continue reading Vicharasagara-Page-294

Vicharasagara-Page-293

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 293 अयं च तेषामभिप्रायः – (१) अग्निरिति पदस्य वह्निरूपार्थेन नात्यन्तं भेदः। अत्यन्तभेदे सति यथा अग्निपदाद्यन्तभिन्ना जलादिपदार्थाः अग्निरिति पदेन न प्रतीयन्ते। तथा अग्निरिति पदेन आग्नि पदादत्यन्तभिन्नो वह्निरूपपदार्थोऽपि न प्रतीयेत। (२) पदस्य स्वार्थेन सहात्यन्तभेदाभाववदत्यन्ताभेदोऽपि नास्ति। यद्यन्ताभेदो वाच्यवाचकयोः स्यात्, तदा अग्निपदवाच्यार्थभूतवह्निना यथामुखं… Continue reading Vicharasagara-Page-293

Vicharasagara-Page-292

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 292 हि समर्थं, सामर्थ्यहीनं चासमर्थम्। असमर्थेन न किञ्चिदपि कार्यं सिद्ध्यतीति लोकप्रसिद्धिः। ततश्चासमर्थेन पदेनार्थज्ञानरूपकार्यमपि न संभवेदेव। तस्मात्पदे सामर्थ्यमवश्यमभ्युपेयम्। एवश्च भर्जिते बीजे अङ्कुरोत्पत्तिहेतुत्वस्येवासमर्थे पदेऽर्थबोधहेतुत्वस्यासंभवात् अर्थबोधहेतुत्वरूपयोग्यता न पदशक्तिः। किन्तु सा योग्यता पदस्य येन सामर्थ्येन संपद्यते तत्सामर्थ्यमेव पदशक्तिरित्यभ्युपेयम्। ततश्च लोकप्रसिद्धसामर्थ्यस्यैव शक्तित्वाङ्गीकारे न कोऽपि… Continue reading Vicharasagara-Page-292

Vicharasagara-Page-291

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                 Page 291 ज्ञानहेतुत्वरूपयोग्यताऽस्ति। सा योग्यतैव शक्तिः। अयमर्थः हरिकारिकां प्रमाणीकृत्य वैयाकरणभूषणाख्यग्रन्थे निरूपितः। (आ- ४२७-४२८) वैयाकरणाभिमतशक्तिखण्डनम् – (४२७) अर्थज्ञानहेतुत्वरूपा योग्यता शक्तिरिति वदन् प्रष्टव्यः – किं भवन्मते पदे… Continue reading Vicharasagara-Page-291