Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 312 दत्तपिण्डमात्रेण सह ‘अ एवायं देवदत्तः’ इति वाक्यस्य लक्ष्यलक्षणभावः संबन्धः सिद्ध्यति। एवमेव “तत्त्वमसि” इति वाक्येऽपि ‘तत्’ ‘त्वम्’ इति पदद्वयबोध्यविरुद्धर्मभूतपरोक्षत्वापरोक्षत्व वैशिष्ट्यपरित्यागेन चैतन्यमात्रेण सह “तत्त्वमसि” इति… Continue reading Vicharasagara-Page-312
Tag: Transcript #Advaita
Vicharasagara-Page-311
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 311 तत्रस्थाभासः तदधिष्ठानचैतन्यं चेत्येतत् त्रयं मिलित्वा अल्पशक्तित्वकिञ्चिज्ज्ञत्वादिधर्मविशिष्टो जीव इत्युच्यते। अयमेव त्वंपदवाच्यार्थः। अनयोरेकत्वं ‘तत्त्वमसि’ इति वाक्यं बोधयति। एतत्तु न घटते। तस्मात् आभाससहित मायां, मायाकृतसर्वशक्तित्वसर्वज्ञत्वादिधर्मांश्च तत्पदवाच्यांशान्… Continue reading Vicharasagara-Page-311
Vicharasagara-Page-310
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 310 (४५२) अवच्छेदवादः — कतिपयग्रन्थेषु शुद्धसत्त्वगुणोपेतमायाविशिष्टचैतन्यमीश्वरः, मलिनसत्त्वगुणोपेतान्तःकरणोपादानकारणीभूताविद्यांशविशिष्टचैतन्यं जीव इति च कथ्यते। अयमेवावच्छेदवादः इत्युच्यते। वेदान्तेषु प्रकियाभेदाः सर्वे (१)ऽप्यद्वैतात्मावगमार्था एव। अत एव यया यया प्रक्रियया जिज्ञासोर्बोधो… Continue reading Vicharasagara-Page-310
Vicharasagara-Page-309
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 309 प्रतिबिम्बवादयोः भेदः। (१) (१) अत्रायं विशेषः – णिरपूर्णानेकघटेष्वनेकानि सूर्यप्रतिबिम्बानि भान्ति। तेष्वेकैकमपि प्रतिबिम्बं व्यष्टिरित्युच्यते। सर्वेषां प्रतिबिम्बानां मिलित्वा एकत्वेन ग्रहणे समष्टिरिति गीयते। एतेषु व्यष्टिप्रतिबिम्बेषु यत्… Continue reading Vicharasagara-Page-309
Vicharasagara-Page-308
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 308 बिम्बरूपेश्वरे (१) न ते दोषाः सन्ति। अत एवेश्वरे सर्वज्ञत्वादयः सन्ति। जीवे च किञ्चिज्ज्ञत्वादयः। (४५१) आभासप्रतिबिम्बवादयोर्भेदः —आभासपक्षे आभासो मिथ्या। प्रतिबिम्बपक्षे प्रतिबिम्बो न मिथ्या। अपि… Continue reading Vicharasagara-Page-308
Vicharasagara-Page-307
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 307 (४४९) आभासवादः —- पञ्चदशीग्रन्थे विद्यारण्यस्वामिनः अन्तःकरणाभासो जीव इत्यवोचन्। नन्वन्तःकरणाभासो जीव इत्यभ्युपगमे सुषुप्तावन्तःकरणाभावाज्जीवाभावः प्रसज्येत। तथा सति प्राज्ञरूपो जीवः सुषुप्त्यभिमानी वर्तते इति प्रसिद्धिर्विरुध्येतेति चेन्न। अन्तःकरणाभासो जीव इति वदतां विद्यारण्यस्वामिनामयमाशयः – अन्तःकरणात्मना परिणममानाविद्यांशप्रतिफलित आभासो जीवः। स चाविद्यांशः सुषुप्तावप्यस्ति। तस्मान्न प्राज्ञाभावप्रसङ्गः इति।… Continue reading Vicharasagara-Page-307