Vicharasagara-Page-276

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 276 ब्रह्माकारा वृत्तिः पुनः पुनरुदियात्। कर्मोपासनाभ्यां ब्र्हमाकारा वृत्तिर्न जायेत। अन्तःकरणस्य शुद्धिनैश्चल्यसंपादनद्वारैव कर्मोपासने ज्ञाने उपयुज्येते, नान्येन प्रकारेण। विदुषोऽन्तःकरणे तु पापचाञ्चल्ये न स्तः। अविद्या हि रागद्वेषादिद्वारा पापचाञ्चल्ययो: कारणं भवति। सा चाविद्या ज्ञानेनैव नश्यति। तस्माद्विदुषः पापचाञ्चल्ययोरभावात् कर्मोपासनाभ्यां नास्त्युपयोगः। (४०७) ज्ञानिनाप्यन्तःकरणचाञ्चल्यनिवृत्तये   उपासनमनुष्ठेयमित्याक्षेपस्तत्समाधानञ्च —- यद्यत्रैवमाशङ्क्येत – ‘रागद्वेषादयोऽन्तःकरणस्य सहजाधर्माः। यावत्कालपर्यन्तमन्तःकरणमस्ति तावत्कालपर्यन्तं… Continue reading Vicharasagara-Page-276

Vicharasagara-Page-275

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 275 पुण्यपापे तदाश्रयान्तःकरणम् च परमार्थतो न सन्ति। “अतोऽन्यदार्तम्।” (बृ: ३-७-२३) “न तु तद् द्वितीयमस्ति।” (बृ: ४-३-२३-३0) “यत्र नान्यत्पश्यति।” (छा:७-२४-१) इत्यादिश्रुतिभ्यः। अविद्यया तानि मिथ्या प्रतीयन्ते। साऽविद्या मिथ्याप्रतीतिश्च ज्ञानवतो न स्तः। तस्माच्छुभकर्मत्यागेनाशुभकर्मानुष्ठानेन वा ज्ञानिनः पापं न संभवेत्। “अहं ब्रह्मेति विज्ञानात्फलकोटिशतार्जितम्। सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत्॥ यत्कृतं स्वप्नवॆलायां… Continue reading Vicharasagara-Page-275

Vicharasagara-Page-274

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 274 जलेनोत्पन्नौ वृक्षो जलेन रक्ष्यते। जलसंबन्धाभावे वृद्धोऽपि वृक्षः शुष्यति, तथा कर्मोपासनाभ्यामुत्पन्नं ज्ञानं कर्मोपासनाभ्यां रक्षितं भवति। यदि ज्ञानी कर्मोपासने न कुर्यात्तदा पुनरप्यन्तःकरणमशुद्धं चञ्चलं च भवेत्। शुष्कभूमौ वृक्ष इवाशुद्धे चञ्चले चान्तःकरणे पूर्वोत्पन्नमपि ज्ञानं नश्येत्। तस्माज्ज्ञानवानपि कर्मोपासने अनुतिष्ठेत् इति। तन्न युज्यते – आभाससहिते अथवा चैतन्यविशेष्टेऽन्तःकरणे ‘अहमसङ्गं ब्रह्मैवास्मि’ इति या वृत्तिरुदेति सैव वेदान्तस्य फलरूपं ज्ञानम्। तच्च… Continue reading Vicharasagara-Page-274

Vicharasagara-Page-273

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 273 तस्मात् केवलं ज्ञानं मोक्षहेतुः। कर्मोपासनज्ञानानि त्रीणि न मोक्ष कारणानि। (४०३) कर्मोपासने ज्ञानस्य साधने न मोक्षस्य – वृक्षदृष्टान्तोऽप्यसङ्गतः – पूर्वपक्षिणा प्रदर्शितो वृक्षदृष्टान्तोऽसङ्गतः। यद्यपि जलसेचनं वृक्षस्योत्पत्तौ रक्षणे च हेतुस्तथापि फलोत्पत्तौ न हेतुः। तथाहि वृद्धो यो वृक्षस्तस्य जलसेचनं रक्षणायैव न फलाय। जलेन पुष्टो यो वृक्षः स फलहेतुरिति सत्यम्। न तु जलसेचनं फलोत्पत्तिं प्रति हेतुः।… Continue reading Vicharasagara-Page-273

Vicharasagara-page-272

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 272/२७२ दृष्टफलस्योत्पत्तिः यावत्या सामग्र्या साध्यतया प्रत्यक्षेण प्रतीयते तावती सामग्री दृष्टफलस्य हेतुरित्युच्यते।   यथा तुरीतन्तुवेमादिभिः पटस्योत्पत्तिः प्रत्यक्षेति तुरीतन्तुवेमादिकं पटस्य हेतुः। यथा च केवलभोजनेन तृप्तिरूपं फलं प्रत्यक्षमिति केवलभोजनमेव तृप्तिहेतुः। यथा वा केवलाधिष्ठानज्ञानात् भ्रान्तिनिवृत्तिः प्रत्यक्षेण प्रतीयत इत्यधिष्ठानज्ञानमेव भ्रान्तिनिवृत्तिहेतुः। यथा रज्जुज्ञानं भ्रान्तिनिवृत्तौ नान्यदपेक्षते तथा बन्धभ्रान्तेरधिष्ठानभूतनित्यमुक्तात्मज्ञानमपि बन्धभ्रान्तिनिवृत्तौ कर्मोपासने नापेक्षते। (४०२) केवलं ज्ञानमेव मोक्षसाधनमिति शास्त्रवचनमपि – ज्ञानफलस्य मोक्षस्य स्वर्गादिवल्लोकविशेषत्ववर्णनेनादृष्टरूपत्वाङ्गीकारे… Continue reading Vicharasagara-page-272

Vicharasagara-page-271

विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 271/२७१ (३९९) आकाशे पक्षिपतनदृष्टान्तोऽत्र न युज्यते – पक्षिणो द्वावपि पक्षौ एककाले एव स्तः। तस्मान्न तयोः परस्पर विरोधः। ज्ञानस्य कर्मोपासनाभ्यां विरोधोऽस्ति। तस्मादेककालावस्थानं न तयोः संभवति। (आ. ४००-४१३) मोक्षमुद्दिश्य ज्ञानस्य कर्मोपासनयोरपेक्षाभावः —-‘ (४००) सेतुदर्शनदृष्टान्तः प्रकृते न युज्यते –  मोक्षं प्रति ज्ञानस्य कर्मोपासनयोः साहाय्यविषये प्रदर्शितः सेतुदर्शनदृष्टान्तो न सङ्गच्छते। सेतुदर्शनं न दृष्टफलस्य हेतुः, किन्त्वदृष्टफलस्यैव हेतुः। यत्… Continue reading Vicharasagara-page-271