Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 288 (आ- ४२३ -४४०) शक्तिलक्षणम् – (४२३) न्यायमतेन शक्तिलक्षणम् – ‘घटः’ इत्येतत्पदश्रवणमात्रेण सकलकलशरूपस्यार्थस्य ज्ञानं सर्वेषां भवतु’ इतीश्वरेच्छैव न्यायशास्त्रे शक्तिरित्युच्यते। (४२४) पदनिष्ठमर्थज्ञानोत्पादनसामर्थ्यं पदशक्तिरिति सिद्धान्ते शक्तिलक्षणम् — (१) घटपदं शृण्वतः कलशरूपार्थबोधजननानुकूलं घटपदनिष्ठं सामर्थ्यमेव घटपदस्य शक्तिः। एवमेव पटपदं शृण्वतः वस्त्ररूपार्थबोधजननानुकूलं पटपदनिष्ठं सामर्थ्यमेव… Continue reading Vicharasagara-Page-288
Tag: NischalaDasa
Vicharasagara-Page-287
Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 287 ‘शक्तिः’ ‘२-लक्षणा’ इति द्विविधा। तयोः स्वरूपं सलक्षणं वर्ण्यमानं शृणु इति गुरुरवदत्। ————————————- १- शब्दगतं यत् स्वार्थावबोधनसामर्थ्यं तदेव शब्दस्य शक्तिः इति वर्ण्यते। सा शक्तिरूपा वृत्तिः कपालद्वयमध्यस्थितकपालसंयोगवत्, कार्यकारणात्मकपदार्थद्वयमध्यस्थितसमवायसंबन्धवत्, अथवा तादात्म्यसंबन्धवच्च शब्दार्थयोर्मध्येऽस्ति। तस्मात् सेयं शक्तिः शब्दस्यार्थेन सह विद्यमानः शक्तिवृत्तिरूपः साक्षात्संबन्धो भवति।… Continue reading Vicharasagara-Page-287
Vicharasagara-Page-285
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Previous page Next page Page 285 बुद्धिर्न जायत एव। यथा अपरोक्षतया मिथेति ज्ञाते रज्जुसर्पे सत्यत्वबुद्धिः पुनर्नोदेति तथा ज्ञानिनः पुनरपि विषये सत्यत्वबुद्धिर्न जायते। इत्थम् ज्ञानिनो रागस्योत्पत्तिर्वैराग्यस्य निवृत्तिश्च न संभवतः। तस्माज्ज्ञानिनो वैराग्यं दृढं भवति। (३) विषयदोषदृष्टिजन्यमज्ञानिनो वैराग्यं तु कालेन दूरीभवेत्। तथाहि, यस्मिन् विषये दोषदृष्टिर्जायते तस्मिन्नेव विषये… Continue reading Vicharasagara-Page-285
Vicharasagara-Page-284
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Previous page Next page Page 284 लिङ्गम्। वैराग्यं च ज्ञानिनो लिङ्गम्। यद्यप्यज्ञानिनोऽपि वैराग्यमुत्पद्यते तथापि तस्य वैराग्यं ज्ञानिवैराग्याद्विलक्षणम्। हे सोम्य! शब्दादिविषयेषु सत्यत्वभ्रान्तिः, रज्जुसर्पवद्विषयो भ्रमरूप इति निश्चयबुद्धिश्च क्रमेण, वायुर्लतामिव, रागं वैराग्यं च सदा चालयतः। रागवैराग्योः शैथिल्यं न जनयत इति यावत्। विषयेषु सत्यत्वबुद्ध्या रागस्य शैथिल्यं दूरीक्रियते। विषयेषु… Continue reading Vicharasagara-Page-284
Vicharasagara-Page-283
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 283 उक्तमेवार्थं पुनरपि संक्षिप्याह गुरुः – हे सोम्य! त्वं विनाशिदेहादिसङ्घातरूपो नासि। किन्त्वविनाशिब्रह्मरूपोऽसि। १- वृक्ष रूपः संसारो मिथ्या। यथा नभसि नैल्यमधोमुखेन्द्रनीलकटाहरूपत्वादिकं चाविद्यमानमपि मिथ्या प्रतीयते तथा संसारोऽप्यात्मन्यविद्यमानोऽपि मिथ्या प्रतीयते। तथा चोक्तं भागवते – अविद्यमानोऽप्यवभासते द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा । तत्कर्मसंकल्पविकल्पकं मनॊ बुधो निरुन्ध्यादभयं ततः स्यात्… Continue reading Vicharasagara-Page-283
Vicharasagara-Page-282
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 282 ज्ञानं नोदियात्। तस्मात्तासां निवृत्तिर्जिज्ञासोरवश्यमपेक्षिता। इति जिज्ञासोर्हेयवर्गोपदेशः। (४१६) ज्ञानस्य बहिरङ्गसाधनोपदेशः —– विवेकः, वैराग्यं, शमादिषट्कसंपत्तिः, मुमुक्षुत्वं, इत्येतानि चत्वारि ज्ञानस्य साधनानि। तेषु विवेकः प्रधानं साधनम्। अतःप्रथमं तस्य कीर्तनम्। विवेकेनैव वैराग्यादिकमुत्पद्यते। अतश्चाचार्यः शिष्याय विवेकमेव प्रथममुपदिशति – हे सोम्य! संसार समुद्रं मृगतृष्णिकाजलसमं मिथ्येति वारं वारं चिन्तय। संसारस्य… Continue reading Vicharasagara-Page-282
Vicharasagara-Page-280
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 280 आत्मानमसङ्गं ज्ञात्वेतरव्यवहारवत् वैदिकशुभकर्माद्यनुष्ठानमपि देहादिधर्म इत्येव ज्ञात्वा विदुषा क्रियमाणं शुभं कर्माप्याभासरूपमेव। तस्यापि ज्ञानेन सह विरोधो नास्ति। भाष्यकारादिभिः कर्मोपासनयोर्ज्ञानेन यो विरोध उक्तः सः ‘ आत्मा कर्ता भोक्ता च’ इति ज्ञानपूर्वकं क्रियमाणकर्मोपासनविषयः। न त्वाभासरूप कर्मोपासनविषयः। (४१२) मन्दबोधस्य कर्मोपासन्योश्च विरोध एव ——- मन्दबोधस्य त्वाभासरूपे अपि कर्मोपासने… Continue reading Vicharasagara-Page-280
Vicharasagara-Page279
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 279 भेदबुद्ध्योपासनमनुष्ठीयते। ते द्वे अपि बुद्धी सर्वं खल्विदं ब्रह्म इति बुद्धिं दूरीकृत्यैव भवतः। तस्मात्कर्मोपासने ज्ञानस्य विरोधिनी। यद्यपि ज्ञानी आत्मानमसङ्गतया जानाति तथापि भोजनादिरूपं देहव्यवहारं वा, जनकादिवत् ततोऽप्यधिकं राज्यपालनादिव्यवहारं वा करोत्येव। तस्य व्यवहारस्य ज्ञानं न विरोधि भवति। न वा व्यवहारो ज्ञानस्य विरोधी भवति। तथाहि यदात्मस्वरूपं ज्ञानेनासङ्गतया… Continue reading Vicharasagara-Page279
Vicharasagara-Page278
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 278 नयोः प्रवर्तितुं १- नार्हति। कर्मोपासन फलभूतान्तःकरणशुद्धिनैश्चल्ये श्वणेनैव तस्य सिद्धे भवतः। श्रवणस्यावृत्यैवान्तःकरणदोषस्य निवृत्त्या तस्येह जन्मनि जन्मान्तरे वा ब्रह्मलोके वा ज्ञानं सिद्ध्येत्। आवृत्तिर्नामाभ्यासः। पुनः पुनरनुष्ठानम्। साधनानुष्ठाने प्रयत्नधारेति यावत्। श्रवणं परित्यज्य कर्मोपासनयोः प्रवर्तमानः २- आरूढपतित इत्यभिधीयते। इत्थं च ज्ञानिनः, उत्तमजिज्ञासोश्च कर्मोपासनयोरधिकारो नास्ति। मन्दजिज्ञासुर्यो वेदान्तश्रवणे प्रवृत्तस्तस्याप्यधिकारो नास्ति।… Continue reading Vicharasagara-Page278
Vicharasagara-Page-277
Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர: Page 277 (आ – ४०८-४०९) दृढज्ञानिनामदृढज्ञानिनामुत्तमजिज्ञासूनां च कर्मोपासनयोरनधिकारः —– (४०८) मन्दबोधवानुत्तमजिज्ञासुरपि कर्मोपासनयोर्न प्रवर्तते – (१) यस्य तु मन्दबोधोऽस्ति स मनननिदिध्यासने एव कुर्यात्। तेन कर्मोपासने न कर्तव्ये। यस्य मन्दबोधोऽस्ति स उत्तमजिज्ञासुः। तस्य मनननिदिध्यासने विना कर्तव्यान्तरं नास्ति। सोऽयमर्थः शारीरिके सूत्रकारैर्भाष्यकारैश्च प्रतिपादितः। (ब्र सू भा – ४-१०-२) (२)… Continue reading Vicharasagara-Page-277