Vicharasagara-Page-285

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Previous page                               Next page Page 285 बुद्धिर्न जायत एव। यथा अपरोक्षतया मिथेति ज्ञाते रज्जुसर्पे सत्यत्वबुद्धिः पुनर्नोदेति तथा ज्ञानिनः पुनरपि विषये सत्यत्वबुद्धिर्न जायते। इत्थम् ज्ञानिनो रागस्योत्पत्तिर्वैराग्यस्य निवृत्तिश्च न संभवतः। तस्माज्ज्ञानिनो वैराग्यं दृढं भवति। (३) विषयदोषदृष्टिजन्यमज्ञानिनो वैराग्यं तु कालेन दूरीभवेत्। तथाहि, यस्मिन् विषये दोषदृष्टिर्जायते तस्मिन्नेव विषये… Continue reading Vicharasagara-Page-285

Vicharasagara-Page-284

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Previous page                               Next page Page 284 लिङ्गम्। वैराग्यं च ज्ञानिनो लिङ्गम्। यद्यप्यज्ञानिनोऽपि वैराग्यमुत्पद्यते तथापि तस्य वैराग्यं ज्ञानिवैराग्याद्विलक्षणम्। हे सोम्य! शब्दादिविषयेषु सत्यत्वभ्रान्तिः, रज्जुसर्पवद्विषयो भ्रमरूप इति निश्चयबुद्धिश्च क्रमेण, वायुर्लतामिव, रागं वैराग्यं च सदा चालयतः। रागवैराग्योः शैथिल्यं न जनयत इति यावत्। विषयेषु सत्यत्वबुद्ध्या रागस्य शैथिल्यं दूरीक्रियते। विषयेषु… Continue reading Vicharasagara-Page-284

Vicharasagara-Page-283

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 283 उक्तमेवार्थं पुनरपि संक्षिप्याह गुरुः – हे सोम्य! त्वं विनाशिदेहादिसङ्घातरूपो नासि। किन्त्वविनाशिब्रह्मरूपोऽसि। १- वृक्ष रूपः संसारो मिथ्या। यथा नभसि नैल्यमधोमुखेन्द्रनीलकटाहरूपत्वादिकं चाविद्यमानमपि मिथ्या प्रतीयते तथा संसारोऽप्यात्मन्यविद्यमानोऽपि मिथ्या प्रतीयते। तथा चोक्तं भागवते – अविद्यमानोऽप्यवभासते द्वयो ध्यातुर्धिया स्वप्नमनोरथौ यथा । तत्कर्मसंकल्पविकल्पकं मनॊ बुधो निरुन्ध्यादभयं ततः स्यात्… Continue reading Vicharasagara-Page-283

Vicharasagara-Page-282

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 282 ज्ञानं नोदियात्। तस्मात्तासां निवृत्तिर्जिज्ञासोरवश्यमपेक्षिता। इति जिज्ञासोर्हेयवर्गोपदेशः। (४१६) ज्ञानस्य बहिरङ्गसाधनोपदेशः —– विवेकः, वैराग्यं, शमादिषट्कसंपत्तिः, मुमुक्षुत्वं, इत्येतानि चत्वारि ज्ञानस्य साधनानि। तेषु विवेकः प्रधानं साधनम्। अतःप्रथमं तस्य कीर्तनम्। विवेकेनैव वैराग्यादिकमुत्पद्यते। अतश्चाचार्यः शिष्याय विवेकमेव प्रथममुपदिशति – हे सोम्य! संसार समुद्रं मृगतृष्णिकाजलसमं मिथ्येति वारं वारं चिन्तय। संसारस्य… Continue reading Vicharasagara-Page-282

Vicharasagara-Page-280

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 280 आत्मानमसङ्गं ज्ञात्वेतरव्यवहारवत् वैदिकशुभकर्माद्यनुष्ठानमपि देहादिधर्म इत्येव ज्ञात्वा विदुषा क्रियमाणं शुभं कर्माप्याभासरूपमेव। तस्यापि ज्ञानेन सह विरोधो नास्ति। भाष्यकारादिभिः कर्मोपासनयोर्ज्ञानेन यो विरोध उक्तः सः ‘ आत्मा कर्ता भोक्ता च’ इति ज्ञानपूर्वकं क्रियमाणकर्मोपासनविषयः। न त्वाभासरूप कर्मोपासनविषयः। (४१२) मन्दबोधस्य कर्मोपासन्योश्च विरोध एव ——- मन्दबोधस्य त्वाभासरूपे अपि कर्मोपासने… Continue reading Vicharasagara-Page-280

Vicharasagara-Page279

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 279 भेदबुद्ध्योपासनमनुष्ठीयते। ते द्वे अपि बुद्धी सर्वं खल्विदं ब्रह्म इति बुद्धिं दूरीकृत्यैव भवतः। तस्मात्कर्मोपासने ज्ञानस्य विरोधिनी। यद्यपि ज्ञानी आत्मानमसङ्गतया जानाति तथापि भोजनादिरूपं देहव्यवहारं वा, जनकादिवत् ततोऽप्यधिकं राज्यपालनादिव्यवहारं वा करोत्येव। तस्य व्यवहारस्य ज्ञानं न विरोधि भवति। न वा व्यवहारो ज्ञानस्य विरोधी भवति। तथाहि यदात्मस्वरूपं ज्ञानेनासङ्गतया… Continue reading Vicharasagara-Page279

Vicharasagara-Page278

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 278 नयोः प्रवर्तितुं १- नार्हति। कर्मोपासन फलभूतान्तःकरणशुद्धिनैश्चल्ये श्वणेनैव तस्य सिद्धे भवतः। श्रवणस्यावृत्यैवान्तःकरणदोषस्य निवृत्त्या तस्येह जन्मनि जन्मान्तरे वा ब्रह्मलोके वा ज्ञानं सिद्ध्येत्। आवृत्तिर्नामाभ्यासः। पुनः पुनरनुष्ठानम्। साधनानुष्ठाने प्रयत्नधारेति यावत्। श्रवणं परित्यज्य कर्मोपासनयोः प्रवर्तमानः २- आरूढपतित इत्यभिधीयते। इत्थं च ज्ञानिनः, उत्तमजिज्ञासोश्च कर्मोपासनयोरधिकारो नास्ति। मन्दजिज्ञासुर्यो वेदान्तश्रवणे प्रवृत्तस्तस्याप्यधिकारो नास्ति।… Continue reading Vicharasagara-Page278

Vicharasagara-Page-277

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 277 (आ – ४०८-४०९) दृढज्ञानिनामदृढज्ञानिनामुत्तमजिज्ञासूनां च कर्मोपासनयोरनधिकारः —– (४०८) मन्दबोधवानुत्तमजिज्ञासुरपि कर्मोपासनयोर्न प्रवर्तते – (१) यस्य तु मन्दबोधोऽस्ति स मनननिदिध्यासने एव कुर्यात्। तेन कर्मोपासने न कर्तव्ये। यस्य मन्दबोधोऽस्ति स उत्तमजिज्ञासुः। तस्य मनननिदिध्यासने विना कर्तव्यान्तरं नास्ति। सोऽयमर्थः शारीरिके सूत्रकारैर्भाष्यकारैश्च प्रतिपादितः। (ब्र सू भा – ४-१०-२) (२)… Continue reading Vicharasagara-Page-277

Vicharasagara-Page-276

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 276 ब्रह्माकारा वृत्तिः पुनः पुनरुदियात्। कर्मोपासनाभ्यां ब्र्हमाकारा वृत्तिर्न जायेत। अन्तःकरणस्य शुद्धिनैश्चल्यसंपादनद्वारैव कर्मोपासने ज्ञाने उपयुज्येते, नान्येन प्रकारेण। विदुषोऽन्तःकरणे तु पापचाञ्चल्ये न स्तः। अविद्या हि रागद्वेषादिद्वारा पापचाञ्चल्ययो: कारणं भवति। सा चाविद्या ज्ञानेनैव नश्यति। तस्माद्विदुषः पापचाञ्चल्ययोरभावात् कर्मोपासनाभ्यां नास्त्युपयोगः। (४०७) ज्ञानिनाप्यन्तःकरणचाञ्चल्यनिवृत्तये   उपासनमनुष्ठेयमित्याक्षेपस्तत्समाधानञ्च —- यद्यत्रैवमाशङ्क्येत – ‘रागद्वेषादयोऽन्तःकरणस्य सहजाधर्माः। यावत्कालपर्यन्तमन्तःकरणमस्ति तावत्कालपर्यन्तं… Continue reading Vicharasagara-Page-276