Vicharasagara-Page-294

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 294 सहितोऽभेदो वर्तते तथैव उदकं, वनं, नीरं, जीवनमित्यादिपदानां जलरूपार्थेन सह भेदसहितोऽभेदो वर्तते। उदकशब्दजलरूपार्थयोरत्यन्तभेदसत्वे, यथा उदकमित्यादिशब्दादत्यन्तभिन्ना अग्न्याद्या अर्थाः उदकमिति शब्दान्न प्रतीयन्ते तथा जलरूपार्थोऽपि उदकादिपदैर्न प्रतीयेत। अतो नात्यन्तभेदोऽस्ति। उदकशब्दजलरूपार्थयोरत्यन्ताभेदोऽपि न। अत्यन्ताभेदे सति जलसंबन्धेन मुखे शैत्योत्पत्तिवत् उदकादिपदोच्चारणेनापि मुखे शैत्यं जायेत। परन्तूदकादिपदोच्चारणेन मुखे… Continue reading Vicharasagara-Page-294

Vicharasagara-Page-293

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 293 अयं च तेषामभिप्रायः – (१) अग्निरिति पदस्य वह्निरूपार्थेन नात्यन्तं भेदः। अत्यन्तभेदे सति यथा अग्निपदाद्यन्तभिन्ना जलादिपदार्थाः अग्निरिति पदेन न प्रतीयन्ते। तथा अग्निरिति पदेन आग्नि पदादत्यन्तभिन्नो वह्निरूपपदार्थोऽपि न प्रतीयेत। (२) पदस्य स्वार्थेन सहात्यन्तभेदाभाववदत्यन्ताभेदोऽपि नास्ति। यद्यन्ताभेदो वाच्यवाचकयोः स्यात्, तदा अग्निपदवाच्यार्थभूतवह्निना यथामुखं… Continue reading Vicharasagara-Page-293

Vicharasagara-Page-292

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 292 हि समर्थं, सामर्थ्यहीनं चासमर्थम्। असमर्थेन न किञ्चिदपि कार्यं सिद्ध्यतीति लोकप्रसिद्धिः। ततश्चासमर्थेन पदेनार्थज्ञानरूपकार्यमपि न संभवेदेव। तस्मात्पदे सामर्थ्यमवश्यमभ्युपेयम्। एवश्च भर्जिते बीजे अङ्कुरोत्पत्तिहेतुत्वस्येवासमर्थे पदेऽर्थबोधहेतुत्वस्यासंभवात् अर्थबोधहेतुत्वरूपयोग्यता न पदशक्तिः। किन्तु सा योग्यता पदस्य येन सामर्थ्येन संपद्यते तत्सामर्थ्यमेव पदशक्तिरित्यभ्युपेयम्। ततश्च लोकप्रसिद्धसामर्थ्यस्यैव शक्तित्वाङ्गीकारे न कोऽपि… Continue reading Vicharasagara-Page-292

Vicharasagara-Page-291

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:                                 Page 291 ज्ञानहेतुत्वरूपयोग्यताऽस्ति। सा योग्यतैव शक्तिः। अयमर्थः हरिकारिकां प्रमाणीकृत्य वैयाकरणभूषणाख्यग्रन्थे निरूपितः। (आ- ४२७-४२८) वैयाकरणाभिमतशक्तिखण्डनम् – (४२७) अर्थज्ञानहेतुत्वरूपा योग्यता शक्तिरिति वदन् प्रष्टव्यः – किं भवन्मते पदे… Continue reading Vicharasagara-Page-291

Vicharasagara-Page-281

Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 281 (आ- ४१४-४१७) उपदिष्टार्थसङ्ग्रहः ——-   (४१४) जीवस्वरूपम् – ‘ जगत्कर्तेश्वरः। स तव स्वरूपान्न भिन्नः। त्वं सच्चिदानन्दरूपं ब्रह्मैवासि’ इति प्रागुपदिष्टमेवार्थं पुनरप्याचार्यः कृपया शिष्य़ं प्रति सङ्ग्रहेणोपदिशति ‘हे सोम्य! त्वं दैन्यं परित्यज्य निजस्वरूपं जानीयाः। जन्मादिरहितं शुद्धं ब्रह्मैव त्वमसि। दृश्यं समस्तम् जगत् त्वमेव प्रकाशयसि। स्वाज्ञानेन जगत्सर्वंत्वमेव सृजसि।… Continue reading Vicharasagara-Page-281

Vicharasagara-Page-286

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 286 हती लक्षणा, (३) भागत्यागरूपा लक्षणा इति त्रिविधां लक्षणामाहुः। तत्राद्यं द्वयं महावाक्यार्थज्ञाने नोपयुज्यते। महावाक्यं हि भागत्यागलक्षणया बोद्धुर्निजस्वरूपभूतम् ब्रह्म बोधयति। (४२१) लक्षणायाः सामान्यस्वरूपं निवेदनीयमिति शिष्यप्रश्नः – शिष्यः पृच्छति – ‘स्वामिन्! सामान्यज्ञानानन्तरं हि विशेषजिज्ञासा भवति। यथा ‘ब्राह्मणोऽयम्’ हि सामान्यतो ज्ञाते तदनन्तरं… Continue reading Vicharasagara-Page-286

Vicharasagara-Page-290

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:    Page 290 यस्य सान्निध्याद्दाहो न जायते स प्रतिबन्धकः। यस्य सान्निध्यात्सत्यपि प्रतिबन्धे दाहो जायते स १ उत्तेजकः। हे सौम्य! अग्नाविव जलादिसकलपदार्थेष्वपि स्थितां तत्कार्यजननानुकूलां शक्तिं जानीहि। विना तु शक्तिं न केनापि कारणेन किमपि कार्यं जन्यते। इत्थं शक्तेः प्रयोजनं निरूपितम्। अग्निस्वरूपातिरिक्त शक्तिर्नास्तीत्याक्षेप… Continue reading Vicharasagara-Page-290

Vicharasagara-Page-289

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 289 आक्षेपः —– वर्णसमुदायात्मकपदातिरिक्त शक्त्यभावादीश्वरेच्छैव शक्तिः। वह्नेः स्वरूपातिरिक्तया शक्तिर्नाम नोपलभ्यते। दाहहेतुभूतं वह्निनिष्ठसामर्थ्यमेव वह्नेः शक्तिरिति पूर्वोक्तं न युक्तम्। वह्नौ दाहहेतुत्वं केवलमस्ति। अप्रसिद्धं सामर्थ्यं वह्नौ कल्पयित्वा तस्य दाहकारणत्वकल्पनात् अग्निनिष्ठप्रसिद्ध दाहकारणत्वपरित्यागाच्च न किञ्चिदप्यस्ति प्रयोजनम्। यथा दृष्टान्तेऽग्नौ शक्तिर्नाम न काचिदतिरिक्ता भाति तथा दार्ष्टान्तिके… Continue reading Vicharasagara-Page-289

Vicharasagara-Page-288

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 288 (आ- ४२३ -४४०) शक्तिलक्षणम् – (४२३) न्यायमतेन शक्तिलक्षणम् – ‘घटः’ इत्येतत्पदश्रवणमात्रेण सकलकलशरूपस्यार्थस्य ज्ञानं सर्वेषां भवतु’ इतीश्वरेच्छैव न्यायशास्त्रे शक्तिरित्युच्यते। (४२४) पदनिष्ठमर्थज्ञानोत्पादनसामर्थ्यं पदशक्तिरिति सिद्धान्ते शक्तिलक्षणम् — (१) घटपदं शृण्वतः कलशरूपार्थबोधजननानुकूलं घटपदनिष्ठं सामर्थ्यमेव घटपदस्य शक्तिः। एवमेव पटपदं शृण्वतः वस्त्ररूपार्थबोधजननानुकूलं पटपदनिष्ठं सामर्थ्यमेव… Continue reading Vicharasagara-Page-288

Vicharasagara-Page-287

Previous page Next page Click ↓ on your preferred language to read on! विचारसागरः/ vichArasAgaraH/ vicārasāgaraḥ/ விசாரஸாகர:  Page 287 ‘शक्तिः’ ‘२-लक्षणा’ इति द्विविधा। तयोः स्वरूपं सलक्षणं वर्ण्यमानं शृणु इति गुरुरवदत्। ————————————- १- शब्दगतं यत् स्वार्थावबोधनसामर्थ्यं तदेव शब्दस्य शक्तिः इति वर्ण्यते। सा शक्तिरूपा वृत्तिः कपालद्वयमध्यस्थितकपालसंयोगवत्, कार्यकारणात्मकपदार्थद्वयमध्यस्थितसमवायसंबन्धवत्, अथवा तादात्म्यसंबन्धवच्च शब्दार्थयोर्मध्येऽस्ति। तस्मात् सेयं शक्तिः शब्दस्यार्थेन सह विद्यमानः शक्तिवृत्तिरूपः साक्षात्संबन्धो भवति।… Continue reading Vicharasagara-Page-287