धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।      

मामकाः पाण्डवाः चैव किमकुर्वत सञ्जय ॥  1 :1

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।

आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥  1 :2

पश्यैतां पाण्डु पुत्राणां आचार्य महतीं चमूम् ।
व्यूढां द्रुपद पुत्रेण तव शिष्येण धीमता ॥  1 :3

अत्र शूरा महेष्वासा भीमार्जुन समा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥  1 :4

धृष्ट केतुः चैकितानः काशिराजश्च वीर्यवान् ।
पुरुजित् कुन्ति भोजश्च शैब्यश्च नर पुङ्गवः ॥  1 :5

युधामन्युःच विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥  1 :6

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥  1 :7

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥  1 :8

अन्ये च बहवाः शुरा मदर्थे त्यक्त जीविताः ।
नाना शस्त्र प्रहरणाः सर्वे युद्ध विशारदाः ॥  1 :9

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥  1 :10

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥  1 :11

तस्य सञ्जनयन् हर्षं कुरु वृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥  1 :12

ततः शङ्खाश्च भेर्यश्च पणवानक गोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥  01 :13

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥  1 :14

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महा शङ्खं भीमकर्मा वृकोदरः ॥ 1 :15

अनन्त विजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोष मणिपुष्पकौ ॥  1 :16

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥  1 :17

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥  01 :18

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥  1 :19

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्र सम्पाते धनुरुद्यम्य पाण्डवः ॥  1 :20

हृषीकेशं तदा वाक्यं इदमाह महीपते ।      1 :21

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥  1 :21

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यं अस्मिन् रण समुद्यमे ॥  1 :22

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्भुद्धेः युद्धे प्रिय चिकीर्षवः ॥  1 :23

सञ्जय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥  1 :24

भीष्म द्रोण प्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥ 1 :25

तत्रापश्यत्स्थितान् पार्थः पितॄनथ पिहामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा ॥  1 :26

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् ॥    1 :27

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥        1 :28

अर्जुन उवाच

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥  1 :28

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥  1 :29

गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥  1 :30

निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽ नुपश्यामि हत्वा स्वजनमाहवे ॥  1 :31

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ 1 :32

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ 1 :33

आचार्याः पितराः पुत्राः तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राःश्यालाःसम्बन्धिनस्तथा ॥ 1 :34

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्य राज्यस्य हेतोः किं नु महीकृते ॥ 1 :35

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वैतान् आततायिनः ॥  1 :36

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥  1 :37

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षय कृतं दोषं मित्रद्रोहे च पातकम् ॥  1 :38

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षय कृतं दोषं प्रपश्यद्भिर्जनार्दन ॥  1 :39

कुलक्षये प्रणश्यन्ति कुल धर्माः सनातनाः ।
धर्मे नष्टे कुलं कृत्स्नं अधर्मोऽभिभवत्युत ॥  1 :40

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण सङ्करः ॥  1 :41

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्त पिण्डोदक क्रियाः ॥ 1 :42

दोषेरैतैः कुलघ्नानां  वर्ण सङ्कर कारकैः ।
उत्साद्यन्ते जाति धर्माः कुलधर्माश्च शाश्वताः ॥ 1 :43

उत्सन्न कुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥  1 :44

अहो बत महापापं कर्तुं व्यवसिता वयम् ।
यद्राज्य सुख लोभेन हन्तुं स्वजनमुद्यताः ॥  1 :45

यदि मां अप्रतीकारं अशस्त्रं शस्त्र पाणयः ।
धार्तराष्ट्रा रणे हन्युः तन्मे क्षेमतरं भवेत् ॥  1 :46

सञ्जयउवाच

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोक संविग्न मानसः ॥  1 :47

 

ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे अर्जुन विषाद योगो नाम प्रथमोऽध्यायः

 

सञ्जय उवाच

तं तथा कृपयाऽऽविष्टं अश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यं उवाच मधुसूदनः ॥  2 :1

श्री भगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यं अकीर्तिकरमर्जुन ॥  2 :2

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदय दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥  2 :3

अर्जुन उवाच

कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥  2 :4

गुर्रुनहत्वा हि महानुभावान्
          श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।       
हत्वाऽर्थ कामांस्तु गुरूनिहैव
          भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥  2 :5

न चैतद् विद्मः कतरन् नो गरीयो
यद्वा जयेम यदि वा नो जयेयुः ।        
यानेव हत्वा न जिजीविषामस्
तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥  2 :6

कार्पण्य दोषोपहत स्वभावः
पृच्छामि त्वां धर्म सम्मूढचेताः ।       
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वं प्रपन्नम् ॥  2 :7

न हि प्रपश्यामि ममापनुद्याद्
यच्छोकमुच्छोषणमिन्द्रियाणाम् ।       
अवाप्य भूमौ असपत्नमृद्धं
राज्यं सुराणामपि चाधिपत्यम् ॥  2 :8

सञ्जय उवाच

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।
न योत्स्य इति गोविन्दं उक्त्वा तूर्ष्णीं बभूव ह ॥  2 :9

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥  2 :10

श्री भगवानुवाच

अशोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासून् अगतासूंश्च नानुशोचन्ति पण्डिताः ॥  2 :11

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥  2 :12

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति ॥  2 :13

मात्रा स्पर्शास्तु कौन्तेय शीतोष्ण सुख दुःखदाः ।
आगमापायिनोऽ नित्याः तांस् तितिक्षस्व भारत  2:14

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ ।
सम दुःख सुखं धीरं सोऽमृतत्वाय कल्पते ॥ 2 :15

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽ न्तः त्वनयोस्तत्त्व दर्शिभिः ॥  2 :16

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न किञ्चित् कर्तुमर्हति ॥  2 :17

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥2 :18

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥  2 :19

न जायते म्रियते वा कदाचित्
         नायं भूत्वा भविता वा न भूयः ।       
अजो नित्यः शाश्वतोऽयं पुराणो
         न हन्यते हन्यमाने शरीरे ॥  2 :20

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥  2 :21

वसांसि जीर्णानि यथा विहाय
         नवानि गृह्णाति नरोऽपराणि ।       
तथा शरीराणि विहाय जीर्णानि
         अन्यानि संयाति नवानि देही ॥  2 :22

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥  2 :23

अच्छेद्योऽयं अदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुः अचलोऽयं सनातनः ॥  2 :24

अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हति ॥  2 :25

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुं अर्हसि ॥  2 :26

जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥  2 :27

अव्यक्तादीनि भूतानि व्यक्त मध्यानि भारत ।
अव्यक्त निधनान्येव तत्र का परिदेवना ॥  2 :28

आश्चर्यवत् पश्यति कश्चिदेनं
          आश्चर्यवद्वदति तथैव चान्यः ।       
आश्चर्यवच्चैनमन्यः शृणोति
           शृत्वाप्येनं वेद न चैव कश्चित् ॥  2 :29

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥  2 :30

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽ न्यत् क्षत्रियस्य न विद्यते॥ 2:31

यदृच्छया चोपपन्नं स्वर्ग द्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥  2 :32

अथ चेत्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥  2 :33

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिः मरणादतिरिच्यते ॥  2 :34

भयाद् रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥  2 :35

अवाच्य वादांश्च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥  2 :36

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृत निश्चयः ॥  2 :37

सुख दुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥  2 :38

एषा तेऽभिहता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥  2 :39

नेहाभिक्रम नाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥  2 :40

व्यवसायात्मिका बुद्धिः एकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥  2 :41

यामिमां पुष्पितां वाचं प्रवदन्त्य विपञ्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥  2 :42

कामात्मनः स्वर्गपरा जन्म कर्म फलप्रदाम् ।
क्रिया विशेष बहुलां भोगैश्वर्य गतिं प्रति ॥  2 :43

भोगैश्वर्य प्रसक्तानां तयापहृत चेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥  2 :44

त्रैगुण्य विषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्य सत्त्वस्थो निर्योगक्षेम आत्मवान् ॥ 2 :45

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥  2 :46

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्म फल हेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि॥  2 :47

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ 2:48

दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फल हेतवः ॥  2 :49

बुद्धियुक्तो जहातीह उभे सुकृत दुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥  2 :50

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
जन्म बन्ध विनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥  2 :51

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥  2 :52

श्रुति विप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिः तदा योगमवाप्स्यसि ॥  2 :53

अर्जुन उवाच

स्थित प्रज्ञस्य का भाषा समाधिस्थस्य केशव ।
स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥  2 :54

श्री भगवानुवाच

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थित प्रज्ञस्तदोच्यते ॥  2 :55

दुःखेष्वनुद्विग्न मनाः सुखेषु विगत स्पृहः ।
वीत राग भय क्रोधः स्थितधीर्मुनिरुच्यते ॥  2 :56

यः सर्वत्रानभि स्नेहः तत् तत् प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥  2 :57

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥  2 :58

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥  2 :59

यततो ह्यपि कौन्तेय पुरुषस्य विपञ्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥  2 :60

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥  2 :61

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।

सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते ॥  2 :62

क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति विभ्रमः ।
स्मृति भ्रंशाद् बुद्धिनाशः बुद्धिनाशो प्रणश्यति ॥ 2:63

राग द्वेष वियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥  2 :64

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।

प्रसन्न चेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥  2 :65

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम् ॥2:66

इन्द्रियाणां हि चरतां यन्मनोऽ नुविधीयते ।

तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥  2 :67

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥  2 :68

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥  2 :69

आपूर्यमाणं अचल प्रतिष्ठं
         समुद्रमापः प्रविशन्ति यद्वत् ।       
तद्वत्कामा यं प्रविशन्ति सर्वे
          स शान्तिमाप्नोति न काम कामी ॥  2 :70

विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः ।

निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥  2 :71

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।स्थित्वाऽस्यामन्त कालेऽपि ब्रह्म निर्वाणमृच्छति ॥ 2 :72

 

ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे साङ्ख्य योगः नाम द्वितीयोऽध्यायः

 

अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।

तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥  3 :1

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥  3 :2

श्री भगवानुवाच

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽ नघ ।
ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥  3 :3

न कर्मणामनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते ।
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥  3 :4

न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥  3 :5

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥  3 :6

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगं असक्तः स विशिष्यते ॥  3 :7

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥  3 :8

यज्ञार्थात्कर्मणोऽ न्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥  3 :9

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वं येष वोऽस्त्विष्टकामधुक् ॥  3 :10

देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥  3 :11

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञ भाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥  3 :12

यज्ञशिष्टासिनः सन्तो मुच्यन्ते सर्व किल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥  3 :13

अन्नाद्भवति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्म समुद्भवः ॥  3 :14

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर समुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥  3 :15

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥  3 :16

यस्त्वात्मरतिरेव स्यात् आत्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टः तस्य कार्य न विद्यते ॥  03 :17

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थ व्यपाश्रयः ॥  3 :18

तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥  3 :19

कर्मणैव हि संसिद्धं आस्थिता जनकादयः ।
लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥  3 :20

यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥  3 :21

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥  3 :22

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥  3 :23

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।
सङ्करस्य च कर्ता स्याम् उपहन्यामिमाः प्रजाः ॥ 3 :24

सक्ताः कर्मण्य विद्वांसो यथा कुर्वन्ति भारत ।कुर्याद्विद्वांस्तथाऽसक्तः चिकीर्षुर्लोकसङ्ग्रहम्॥3:25

न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥  3 :26

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कार विमूढात्मा कर्ताहमिति मन्यते ॥  3 :27

तत्त्ववित्तु महाबाहो गुणकर्म विभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥  3 :28

प्रकृतेर्गुण सम्मूढाः सज्जन्ते गुण कर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥  3 :29

मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥  3 :30

ये मे मतमिदं नित्यं अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽ नुसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥ 3 :31

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञान विमूढांस्तान् विद्धि नष्टानचेतसः ॥  3 :32

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥  3 :33

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ॥  3 :34

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥  3 :35

अर्जुन उवाच

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥  3 :36

श्री भगवानुवाच

काम एष क्रोध एष रजोगुण समुद्भवः ।
महाशनो महापाप्मा  विद्ध्येनमिह वैरिणम् ॥  3 :37

धूमेनाव्रियते वह्निः यथाऽदर्शो मलेन च ।
यथोल्बेनावृतो गर्भः तथा तेनेदमावृतम् ॥  3 :38

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥  3 :39

इन्द्रियाणि मनो बुद्धिः अस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥  3 :40

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञान विज्ञान नाशनम् ॥  3 :41

इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः ॥  3 :42

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥  3 :43

 

ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे कर्म योगः नाम त्रितीयोऽध्यायः

श्री भगवानुवाच

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥  4 :1

एवं परम्पराप्राप्तं इमं राजर्षयो विदुः ।
स कालेनेह महता योगो नष्टः परन्तप ॥  4 :2

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥  4 :3

अर्जुन उवाच

अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानपि ॥  4 :4

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥  4 :5

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिम् स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥  4 :6

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥  4 :7

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥  4 :8

जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥  4 :9

वीत राग भय क्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञान तपसा पूता मद्भावमागताः ॥  4 :10

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥  4 :11

काङ्क्षतः कर्मणां सिद्धिं यजन्त इह देवताः ।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥  4 :12

चातुर्वर्ण्यं मयासृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥  4 :13

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥  4 :14

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥  4 :15

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यतेऽशुभात् ॥ 4:16

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥  4 :17

कर्मण्यकर्म यः पश्येद् अकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु युक्तः कृत्स्नमकर्मकृत् ॥  4 :18

यस्य सर्वे समारम्भाः कामसङ्कल्प वर्जिताः ।
ज्ञानाग्निदग्ध कर्माणं तमाहुः पण्डितं बुधाः ॥  4 :19

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभि प्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥  4 :20

निराशीर्यतचित्तात्मा त्यक्त सर्व परिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥  4 :21

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 4 :22

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥  4 :23

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ॥  4 :24

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥  4 :25

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥  4 :26

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥  4 :27

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे ।
स्वाध्याय ज्ञान यज्ञश्च यतयः संशितव्रताः ॥  4 :28

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापानगती रुद्ध्वा प्राणापानपरायणाः ॥  4 :29

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥  4 :30

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् ।
नायं लोकोऽस्त्ययज्ञस्य कुतोऽ न्यः कुरुसत्तम ॥4 :31

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥4 :32

श्रेयान्द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥  4 :33

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥  4 :34

यज्ज्ञात्वा न पुनर्मोहं एवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥  4 :35

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥  4 :36

यथैधांसि समिद्धोऽग्निः भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥  4 :37

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥  4 :38

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिं अचिरेणाधिगच्छति ॥  4 :39

अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥  4 :40

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥  4 :41

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगं आतिष्ठोत्तिष्ठ भारत ॥  4 :42

 

ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे ज्ञानकर्मसन्न्यास योगःनाम चतुर्थोऽधायः

 

अर्जुन उवाच

सन्न्यासं कर्मणा कृष्ण पुनर्योगं न शंससि ।
यच्छ्रेयं एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥  5 :1

श्री भगवानुवाच

सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ॥  5 :2

ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥  5 :3

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यग् उभयोर्विन्दते फलम् ॥  5 :4

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥  5 :5

सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥  5 :6

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥  5 :7

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥  5 :8

प्रलपन् विसृजन् गृह्णन् उन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥  5 :9

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥  5 :10

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥  5 :11

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥  5 :12

सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् ॥  5 :13

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफल संयोगं स्वभावस्तु प्रवर्तते ॥  5 :14

नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥  5 :15

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥  5 :16

तद्बुद्धयस्तदात्मानः तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञान निर्धूत कल्मषाः ॥  5 :17

विद्या विनय संपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥  5 :18

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥5 :19

न प्रहृष्येत्परं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मुढो ब्रह्मविद् ब्रह्मणि स्थितः ॥  5 :20

बाह्य स्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
स ब्रह्मयोग युक्तात्मा सुखमक्षयमश्नुते ॥  5 :21

ये हि संस्पर्शजा भोगा दुःख योनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥  5 :22

शक्नोतीहैव यः सोढुं प्राक्शरीर विमोक्षणात् ।
काम क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥  5 :23

योऽ न्तः सुखोन्तरारामः तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्म भूतोऽधिगच्छति ॥  5 :24

लभन्ते ब्रह्मनिर्वाणं ऋषयः क्षीण कल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहितेरताः ॥  5 :25

कामक्रोध वियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥  5 :26

स्पर्शान्कृत्वा बहिर्बाह्यांश् चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तर चारिणौ ॥  5 :27

यतेन्द्रिय मनो बुद्धिर् मुनिर्मोक्ष परायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥  5 :28

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥  5 :29

 

ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे कर्मसन्न्यास योगः नाम पञ्चमोऽध्यायः

श्री भगवानुवाच

अनाश्रितः कर्म फलं कार्यं कर्म करोति यः ।
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥  6 :1

यं सन्न्यासमिति प्राहुः योगं तं विद्धि पाण्डव ।
न ह्यसन्न्यस्त सङ्कल्पो योगी भवति कश्चन ॥  6 :2

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारुढस्य तस्यैव शमः कारणमुच्यते ॥  6 :3

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्व सङ्कल्प सन्न्यासी योगारूढस्तदोच्यते ॥  6 :4

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः ॥  6 :5

बन्धुरात्मात्मनस्तस्य येनात्मैनात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥  6 :6

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्ण सुख दुःखेषु तथा मानापमानयोः ॥  6 :7

ज्ञान विज्ञान तृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्म काञ्चनः ॥  6 :8

सुहृन्मित्रार्युदासीन मध्यस्थ द्वेष्य बन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥  6 :9

योगी युञ्जीत सततं आत्मानं रहसि स्थितः ।
एकाकी यत चित्तात्मा निराशीरपरिग्रहः ॥  6 :10

शुचौ देशे प्रतिष्ठाय स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नाति नीचं चैलाजिनकुशोत्तरम् ॥  6 :11

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्जात् योगमात्मविशुद्धये ॥  6 :12

समं काय शिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥  6 :13

प्रशान्तात्मा विगतभीः ब्रह्मचारि व्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥  6 :14

युञ्जन्नेवं सदात्मानं योगी नियत मानसः ।
शान्तिं निर्वाण परमां मत्संस्थामधिगच्छति ॥  6 :15

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥  6 :16

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्त स्वप्नावबोधस्य योगो भवति दुःखहा ॥  6 :17

यदा विनियतं चित्तं आत्मन्येवावतिष्ठते ।
निःस्पृहः सर्व कामेभ्यो युक्त इत्युच्यते तदा ॥  6 :18

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यत चित्तस्य युञ्जतो योगमात्मनः ॥  6 :19

यत्रो परमते चित्तं निरुद्धं योग सेवया ।
 यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥  6 :20

सुखमात्यन्तिकं यत् तद् बुद्धि ग्राहमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥  6 :21

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ॥  6 :22

तं विद्याद् दुःख संयोग वियोगं योग सञ्जितम् ।
 स निश्चयेन योक्तव्यो योगोऽ निर्विण्ण चेतसा ॥ 6 :23

सङ्कल्प प्रभवान्कामाम्स् त्यक्त्वा सर्वानशेषतः ।
 मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 6 :24

शनैः शनैरुपरमेद् बुद्ध्या धृति गृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 6:25

यतो यतो निश्चरति मनश्च्ञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतद् आत्मन्यैव वशं नयेत् ॥  6 :26

प्रशान्त मनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्त रजसं ब्रह्मभूतमकल्मषम् ॥  6 :27

युञ्जन्नेवं सदात्मानं योगी विगत कल्मषः ।
सुखेन ब्रह्म संस्पर्शं अत्यन्तं सुखमश्नुते ॥  6 :28

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योग युक्तात्मा सर्वत्र समदर्शनः ॥  6 :29

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
 तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥  6 :30

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥  6 :31

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगि परमो मतः ॥  6 :32

अर्जुन उवाच

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिम् स्थिरम्॥6:33

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥  6 :34

श्री भगवानुवाच

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते ॥  6 :35

असंशयात्मना  योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥   6 :36

अर्जुन उवाच

अयतिः श्रद्धयोपेतो योगाच्चलित मानसः ।
अप्राप्य योग संसिद्धिं कां गतिं कृष्ण गच्छति ॥  6 :37

कच्चिन्नोभयविभ्रष्टः छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥  6 :38

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥  6 :39

श्री भगवानुवाच

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्यान कृत्कश्चिद् दुर्गतिं तात गच्छति ॥  6 :40

प्राप्य पुण्य कृतां लोकान् उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥  6 :41

अथवा योगिनामेव कुले भवति धीमतां ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशं ॥  6 :42

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरु नन्दन ॥  6 :43

पूर्वाभ्यासेन तेनैव ह्रियते ह्यविशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मादि वर्तते ॥ 6 :44

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिशः ।
अनेकजन्म संसिद्धः ततो याति परां गतिम् ॥  6 :45

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥  6 :46

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥  6 :47


ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे आत्मसंयमयोगःनाम षष्ठोऽध्यायः

 

श्री भगवानुवाच

मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥  7 :1

ज्ञानं तेऽहं सविज्ञानं इदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽ न्यत् ज्ञातव्यं अवशिष्यते ॥  7 :2

मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥  7 :3

भूमिरापोऽ नलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥  7 :4

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥  7 :5

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥  7 :6

मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥   7 :7

रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशि सूर्ययोः ।
प्रणवः सर्व वेदेषु शब्दः खे पौरुषं नृषु ॥   7 :8

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥   7 :9

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस् तेजस्विनामहम् ॥   7 :10

बलं बलवतां चाहं काम राग विवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥   7 :11

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥  7 :12

त्रिभिर्गुणमयैर्भावैः एभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥  7 :13

दैवी ह्येशा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥  7 :14

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययाऽपहृत ज्ञाना आसुरं भावमाश्रिताः ॥  7 :15

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥  7 :16

तेषां ज्ञानी नित्य युक्त एक भक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः ॥  7 :17

उदाराः सर्व एवैते ज्ञानी त्वामैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥7:18

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥  7 :19

कामैस् तैस्तैर्हृत ज्ञानाः प्रपद्यन्तेऽ न्य देवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥  7 :20

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥  7 :21

स तया श्रद्धया युक्तः तस्याराधनमीहते ।
लभते च ततः कामान् मयैव विहितान्हि तान् ॥  7 :22

अनवत्तु फलं तेषां तद्भवत्यल्प मेधसाम् ॥
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥  7 :23

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥  7 :24

नाहं प्रकाशः सर्वस्य योगमाया समावृतः ।
मूढोऽयं नाभिजानाति लोको मां अजं अव्ययम् ॥  7 :25

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥  7 :26

इच्छा द्वेष समुत्थेन द्वन्द्व मोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥  7 :27

येषां त्वन्तगतं पापं जनानां पुण्य कर्मणाम् ।
ते द्वन्द्व मोह निर्मुक्ता भजन्ते मां दृढव्रताः ॥  7 :28

जरामरण मोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नं अध्यात्मं कर्म चाखिलम् ॥  7 :29

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाण कालेऽपि च मां ते विदुर्युक्त चेतसः ॥  7 :30

 

 ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे ज्ञानविज्ञानयोगःनाम सप्तमोऽध्यायः

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तं अधिदैवं किमुच्यते ॥  8 :1

अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥   8 :2

श्री भगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्मं उच्यते ।
भूतभावोद्भवकरो विसर्गः कर्म सञ्झितः ॥   8 :3

अधिभूतं क्षरो भावः पुर्षस्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥  8 :4

अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥  8 :5

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् ।
तं तमेवैति कौन्तेय सदा तद्भाव भावितः ॥  8 :6

तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पित मनोबुद्धिः मामेवैष्यस्यसंशयः ॥  8 :7

अभ्यास योगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥  8 :8

कविं पुराणमनुशासितारं
          अणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपं
         आदित्यवर्णं तमसः परस्तात् ॥  8 :9

प्रयाणकाले मनसाऽचलेन
          भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
          स तं परं पुरुषमुपैति दिव्यम् ॥  8 :10

यदक्षरं वेदविदो वदन्ति
         विशन्ति यद्यतयो वीतरागः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
         तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ 8 :11

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणं आस्थितो योग धारणाम् ॥8 :12

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥  8 :13

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥  8 :14

मामुपेत्य पुनर्जन्म दुःखालयं अशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥  8 :15

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥  8 :16

सहस्र युग पर्यन्तं अहर्यद् ब्रह्मणो विदुः ।
रात्रिं युग सहस्रान्तां तेऽहोरात्रविदो जनाः ॥   8 :17

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त सञ्झके ॥  8 :18

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥  8 :19

परस्तस्मात्तु भावोऽ न्योऽव्यक्तो ऽव्यक्तात्सनातनः ।
यः स सर्वेषु भुतेषु नश्यत्सु न विनश्यति ॥  8 :20

अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥  8 :21

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम् ॥  8 :22

यत्र काले त्वनावृत्तिं आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥  8 :23

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥  8 :24

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिः योगी प्राप्य निवर्तते ॥  8 :25

शुक्ल कृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिं अन्ययावर्तते पुनः ॥  8 :26

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥  8 :27

वेदेषु यज्ञेशु तपः सु चैव
          दानेषु यत्पुण्य फलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
          योगी परं स्थानमुपैति चाद्यम् ॥  8 :28


 ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे अक्षरब्रह्मयोगःनाम अष्टमोऽध्यायः

श्री भगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥  9 :1

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥  9 :2

अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्यु संसार वर्त्मनि ॥  9 :3

मया ततमिदं सर्वं जगदव्यक्त मूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥  9 :4

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूत भावनः ॥  9 :5

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥  9 :6

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥  9 :7

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नं अवशम् प्रकृतेर्वशात् ॥  9 :8

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनं असक्तं तेषु कर्मसु ॥  9 :9

मयाध्यक्षेण प्रकृतिः सूयते स चराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥  9 :10

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥  9 :11

मोघाशा मोघ कर्माणो मोघ ज्ञान विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥  9 :12

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्य मनसो ज्ञात्वा भूतादिमव्ययम् ॥  9 :13

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥  9 :14

ज्ञानयज्ञेन चाप्यन्ते यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥  9 :15

अहं क्रतुरहं यज्ञः स्वधाहं अहमौषधम् ।
मन्त्रोऽहं अहमेवाज्यं अहमग्निरहं हुतम् ॥  9 :16

पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥  9 :17

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥  9 :18

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥  9 :19

त्रैविद्या मां सोमपाः पूतपापा
         यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्र लोकं
        अश्नन्ति दिव्यान्दिवि देवभोगान् ॥  9 :20

ते तं भुक्त्वा स्वर्गलोकं विशालं
       क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयी धर्मं अनुप्रपन्ना
       गतागतं कामकामा लभन्ते ॥  9 :21

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥  9 :22

येऽप्यन्य देवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्य विधिपूर्वकम् ॥  9 :23

अहं हि सर्व यज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥  9 :24

यान्ति देवव्रता देवान् पितॄण्यान्ति पितृव्रताः ।
भुतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम्॥ 9 :25

पत्रं पुष्पं फलं तोयम् यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतं अश्नामि प्रयतात्मनः ॥  9 :26

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥  9 :27

शुभाशुभ फलेरैवं मोक्ष्यसे कर्म बन्धनैः ।
सन्न्यासयोग युक्तात्मा विमुक्तो मामुपैष्यसि ॥  9 :28

समोऽहं सर्व भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥ 9 :29

अपि चेत् सुदुराचारो भजते मां अनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥  9 :30

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति ॥  9 :31

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रः तेऽपि यान्ति परां गतिम्॥9:32

किं पुनर्ब्राह्मणाः पुण्याः भक्ता राजर्षयस्तथा ।
अनित्यं असुखं लोकं इमं प्राप्य भजस्व माम् ॥  9 :33

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवं आत्मानं मत् परायणः ॥  9 :34

 

ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे राजविद्याराजगुह्ययोगः नाम नवमोऽध्यायः

श्री भगवानुवाच

भूय एव महाबाहो श्रुणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हित काम्यया ॥  10 :1

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥  10 :2

यो मां अदं अनादिं च वेत्ति लोक महेश्वरम् ।
असम्मुढः स मर्त्येषु सर्व पापैः प्रमुच्यते ॥  10 :3

बुद्धिर्ज्ञानं असम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥  10 :4

अहिंसा समता तुष्टिः तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥  10 :5

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ 10 :6

एतां विभूतिं योगं च मम यो वेत्ति तत्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥  10 :7

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भाव समन्विताः ॥  10 :8

मच्चिता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥  10 :9

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥  10 :10

तेषामेवानुकम्पार्थं अहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥  10 :11

अर्जुन उवाच

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शश्वतं दिव्यं आदिदेवमजं विभुं ॥  10 :12

अहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥  10 :13

सर्वमेतद्दृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥  10 :14

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूत भावन देवेश देव देव जगत्पते ॥  10 :15

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकान् इमांस्त्वं व्याप्य जायते॥10:16

कथं विद्यामहं योगिंस् त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥  10 :17

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे मतम् ॥ 10 :18

श्री भगवानुवाच

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥  10 :19

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानमन्त एव च ॥  10 :20

आदित्यानमहं विष्णुः ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणां अहं शशी ॥  10 :21

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥  10 :22

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥  10 :23

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥  10 :24

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जप यज्ञोऽस्मि स्थावराणां हिमालयः ॥ 10 :25

अश्वत्थः सर्व वृक्षाणां देवर्षीनां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥  10 :26

उच्चैः श्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥  10 :27

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजानश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥10 :28

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा  चास्मि यमः सम्यमतामहम् ॥  10 :29

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगानां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥  10 :30

पवनः  पवतामस्मि रामः शस्त्रभृतामहम् ।
झषानां मकरश्चास्मि स्रोतसामस्मि जाह्नवि ॥  10 :31

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥  10 :32

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥  10 :33

मृत्युः सर्वहरश्चाहं उद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥10:34

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः ॥  10 :35

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतां अहम् ॥  10 :36

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनां उशना कविः ॥  10 :37

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥  10 :38

यच्चापि सर्वभूतानां बीजं तदहमर्जुन ।
न तदस्ति विना यत्स्यात् मया भूतं चराचरम् ॥10 :39

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥  10 :40

यद्यद्विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंश संभवम् ॥  10 :41

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितोजगत् ॥  10 :42

 

ॐ तत्सत् इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्री कृष्णार्जुन संवादे विभूतियोगःनाम दशमोऽध्यायः