Srimad Bhagavad Gita is one of the most exhaustive texts bestowing answers to the quandaries of daily life, in a very explanatory and convincing way. Hence it is not surprising to come across references and quotations from this great scripture in talks, lectures & satsangs. I have often felt the need to go back to a certain verse that was heard in a particular context, but been at a loss to quickly access it, while still fresh with the thoughts of the discussion. With this in mind,  had embarked on a small exercise to have an alphabetically sorted list of slokas, which I have found very handy & useful in the past few years. The file (in devanagari) is also available for download, besides the online reference list. 

This has also come very handy for sloka-antyaakshari with students.

Transliterations in English (Roman & ITRANS) and Tamil coming soon!!!!  check out HERE

श्री भगवानुवाच

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् ।
सम्भावितस्य चाकीर्तिः मरणादतिरिच्यते ॥  02 :34

श्री भगवानुवाच

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्मं उच्यते ।
भूतभावोद्भवकरो विसर्गः कर्म सञ्झितः ॥   08 :3

श्री भगवानुवाच

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥  10 :33

श्री भगवानुवाच

अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् ।
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥  08 :24

श्री भगवानुवाच

अच्छेद्योऽयं अदाह्योऽयं अक्लेद्योऽशोष्य एव च ।
नित्यः सर्वगतः स्थाणुः अचलोऽयं सनातनः ॥  02 :24

श्री भगवानुवाच

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिम् स्वामधिष्ठाय सम्भवाम्यात्ममायया ॥  04 :6

श्री भगवानुवाच

अज्ञश्चाश्रद्धधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥  04 :40

सञ्जय उवाच

अत्र शूरा महेष्वासा भीमार्जुन समा युधि ।
युयुधानो विराटश्च द्रुपदश्च महारथः ॥  01 :4

अर्जुन उवाच

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ॥  03 :36

श्री भगवानुवाच

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥  12 :9

श्री भगवानुवाच

अथ चेत्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥  02 :33

श्री भगवानुवाच

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् ।
तथापि त्वं महाबाहो नैवं शोचितुं अर्हसि ॥  02 :26

सञ्जय उवाच

अथ व्यवस्थितान् दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः ।
प्रवृत्ते शस्त्र सम्पाते धनुरुद्यम्य पाण्डवः ॥  01 :20

श्री भगवानुवाच

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नं एकांशेन स्थितोजगत् ॥  10 :42

श्री भगवानुवाच

अथवा योगिनामेव कुले भवति धीमतां ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशं ॥  06 :42

श्री भगवानुवाच

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्व कर्म फल त्यागं ततः कुरु यतात्मवान् ॥  12 :11

अर्जुन उवाच

अदृष्ट पूर्वं हृषितोऽस्मि दृष्ट्वा
        भयेन च प्रव्यथितम् मनो मे ।
तदेव मे दर्शय देव रूपं
        प्रसीद देवेश जगन्निवास ॥  11 :45

श्री भगवानुवाच

अदेशकाले यद्दानं अपात्रेभ्यश्च दीयते ।
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ॥  17 :22

श्री भगवानुवाच

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च ।
निर्ममो निरहङ्कारः समदुःख सुखः क्षमी ॥  12 :13

श्री भगवानुवाच

अधर्मं धर्ममिति या मन्यते तमसावृता ।
सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥  18 :32

अर्जुन उवाच

अधर्माभिभवात् कृष्ण प्रदुष्यन्ति कुलस्त्रियः ।
स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण सङ्करः ॥  01 :41

श्री भगवानुवाच

अधिभूतं क्षरो भावः पुर्षस्चाधिदैवतम् ।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥  08 :4

अर्जुन उवाच

अधियज्ञः कथं कोऽत्र देहेऽस्मिन् मधुसूदन ।
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥   08 :2

श्री भगवानुवाच

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥  18 :14

श्री भगवानुवाच

अध्यात्म ज्ञान नित्यत्वं तत्त्व ज्ञानार्थ दर्शनम् ।
एतज्ज्ञानमिति प्रोक्तं अज्ञानं यदतोऽ न्यथा ॥  13 :11

श्री भगवानुवाच

अध्येष्यते च य इमं धर्म्यं संवादमावयोः ।
ज्ञान यज्ञेन तेनाहं इष्टः स्यामिति मे मतिः ॥  18 :70

श्री भगवानुवाच

अध्श्चोर्ध्वं प्रसृतास्तस्य शाखा
       गुण प्रवृद्धा विषय प्रवालाः ।
अधश्च मूलान्यनुसन्ततानि
       कर्मानुबन्धीनि मनुष्यलोके ॥  15 :2

सञ्जय उवाच

अनन्त विजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
        नकुलः सहदेवश्च सुघोष मणिपुष्पकौ ॥  01 :16

श्री भगवानुवाच

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा  चास्मि यमः सम्यमतामहम् ॥  10 :29

श्री भगवानुवाच

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥  08 :14

श्री भगवानुवाच

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥  09 :22

श्री भगवानुवाच

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः ।
सर्वारम्भ परित्यागी यो मद्भक्तः स मे प्रियः ॥  12 :16

श्री भगवानुवाच

अनवत्तु फलं तेषां तद्भवत्यल्प मेधसाम् ॥
देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ॥  07 :23

अर्जुन उवाच

अनादि मध्यान्तमनन्त वीर्यं
        अनन्त बाहुं शशि सूर्य नेत्रम् ।
पश्यामि त्वाम् दीप्त हुताशवक्त्रं
        स्वतेजसा विश्वमिदम् तपन्तम् ॥  11 :19

श्री भगवानुवाच

अनादित्वात् निर्गुणत्वात् परमात्मायमव्ययः ।
शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ॥  13 :31

श्री भगवानुवाच

अनाश्रितः कर्म फलं कार्यं कर्म करोति यः ।
स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः ॥  06 :1

श्री भगवानुवाच

अनिष्टमिष्टं मिश्रं च त्रिविधः कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥  18 :12

श्री भगवानुवाच

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् ।
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ॥  17 :15

श्री भगवानुवाच

अनुबन्धं क्षयं हिंसां अनवेक्ष्य च पौरुषम् ।
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥  18 :25

श्री भगवानुवाच

अनेक चित्त विभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥  16 :16

अर्जुन उवाच

अनेक बाहूदर वक्त्र नेत्रं
         पश्यामि त्वां सर्वतोनन्त रूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
        पश्यामि विश्वेश्वर विश्वरूप ॥  11 :16

सञ्जय उवाच

अनेक वक्त्र नयनं अनेकाद्भुत दर्शनम् ।
अनेक दिव्याभरणं दिव्यानेकोद्यतायुधम् ॥  11 :10

श्री भगवानुवाच

अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥  08 :5

श्री भगवानुवाच

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥02 :18

श्री भगवानुवाच

अन्नाद्भवति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्म समुद्भवः ॥  03 :14

सञ्जय उवाच

अन्ये च बहवाः शुरा मदर्थे त्यक्त जीविताः ।
नाना शस्त्र प्रहरणाः सर्वे युद्ध विशारदाः ॥  01 :9

श्री भगवानुवाच

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुति परायणाः ॥  13 :25

अर्जुन उवाच

अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानपि ॥  04 :4

श्री भगवानुवाच

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥  04 :30

श्री भगवानुवाच

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥  07 :5

सञ्जय उवाच

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥  01 :10

श्री भगवानुवाच

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापानगती रुद्ध्वा प्राणापानपरायणाः ॥  04 :29

श्री भगवानुवाच

अपि चेत् सुदुराचारो भजते मां अनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥  09 :30

श्री भगवानुवाच

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥  04 :36

श्री भगवानुवाच

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥  14 :13

श्री भगवानुवाच

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥  17 :11

श्री भगवानुवाच

अभयं सत्त्व संशुद्धिः ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥  16 :1

श्री भगवानुवाच

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥  17 :12

श्री भगवानुवाच

अभ्यास योगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥  08 :8

श्री भगवानुवाच

अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥   12 :10

श्री भगवानुवाच

अमानित्वं अदम्भित्वं अहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यं आत्मविनिग्रहः ॥  13 :7

अर्जुन उवाच

अमी च त्वां धृतराष्ट्रस्य पुत्राः 
        सर्वे सहैवावनिपाल सङ्घैः ।
भीष्मो द्रोणः सूत पुत्रस्तथासौ
       सहास्मदीयैरपि योधमुख्यैः ॥  11 :26

अर्जुन उवाच

अनेक बाहूदर वक्त्र नेत्रं
         पश्यामि त्वां सर्वतोनन्त रूपम् ।
नान्तं न मध्यं न पुनस्तवादिं
        पश्यामि विश्वेश्वर विश्वरूप ॥  11 :16

सञ्जय उवाच

अनेक वक्त्र नयनं अनेकाद्भुत दर्शनम् ।
अनेक दिव्याभरणं दिव्यानेकोद्यतायुधम् ॥  11 :10

श्री भगवानुवाच

अन्तकाले च मामेव स्मरन् मुक्त्वा कलेवरम् ।
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥  08 :5

श्री भगवानुवाच

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः ।
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥02 :18

श्री भगवानुवाच

अन्नाद्भवति भूतानि पर्जन्यादन्नसम्भवः ।
यज्ञाद्भवति पर्जन्यो यज्ञः कर्म समुद्भवः ॥  03 :14

सञ्जय उवाच

अन्ये च बहवाः शुरा मदर्थे त्यक्त जीविताः ।
नाना शस्त्र प्रहरणाः सर्वे युद्ध विशारदाः ॥  01 :9

श्री भगवानुवाच

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते ।
तेऽपि चातितरन्त्येव मृत्युं श्रुति परायणाः ॥  13 :25

अर्जुन उवाच

अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानपि ॥  04 :4

श्री भगवानुवाच

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति ।
सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ॥  04 :30

श्री भगवानुवाच

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।
जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥  07 :5

सञ्जय उवाच

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् ।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥  01 :10

श्री भगवानुवाच

अपाने जुह्वति प्राणं प्राणेऽपानं तथाऽपरे ।
प्राणापानगती रुद्ध्वा प्राणापानपरायणाः ॥  04 :29

श्री भगवानुवाच

अपि चेत् सुदुराचारो भजते मां अनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥  09 :30

श्री भगवानुवाच

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ॥  04 :36

श्री भगवानुवाच

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥  14 :13

श्री भगवानुवाच

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते ।
यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ॥  17 :11

श्री भगवानुवाच

अभयं सत्त्व संशुद्धिः ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥  16 :1

श्री भगवानुवाच

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् ।
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ॥  17 :12

श्री भगवानुवाच

अभ्यास योगयुक्तेन चेतसा नान्यगामिना ।
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥  08 :8

श्री भगवानुवाच

अभ्यासेऽप्यसमर्थोऽसि मत्कर्म परमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥   12 :10

श्री भगवानुवाच

अमानित्वं अदम्भित्वं अहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यं आत्मविनिग्रहः ॥  13 :7

अर्जुन उवाच

अमी च त्वां धृतराष्ट्रस्य पुत्राः 
        सर्वे सहैवावनिपाल सङ्घैः ।
भीष्मो द्रोणः सूत पुत्रस्तथासौ
       सहास्मदीयैरपि योधमुख्यैः ॥  11 :26

अर्जुन उवाच

अमी हि त्वां सुर सङ्घा विशन्ति
        केचिद्भीताः प्राञ्जलयो गृणन्ति ।
स्वस्तीत्युक्त्वा महर्षि सिद्ध सङ्घाः
        स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥  11 :21

अर्जुन उवाच

अयतिः श्रद्धयोपेतो योगाच्चलित मानसः ।
        अप्राप्य योग संसिद्धिं कां गतिं कृष्ण गच्छति ॥  06 :37

सञ्जय उवाच

अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
        भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥  01 :11

श्री भगवानुवाच

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽ लसः ।
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥  18 :28

श्री भगवानुवाच

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् ॥  09 :11

श्री भगवानुवाच

अवाच्य वादांश्च बहून् वदिष्यन्ति तवाहिताः ।
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥  02 :36

श्री भगवानुवाच

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् ।
विनाशमव्ययस्यास्य न किञ्चित् कर्तुमर्हति ॥  02 :17

श्री भगवानुवाच

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् ।
भूत भर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभ विष्णु च ॥  13 :16

श्री भगवानुवाच

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।
परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥  07 :24

श्री भगवानुवाच

अव्यक्तादीनि भूतानि व्यक्त मध्यानि भारत ।
अव्यक्त निधनान्येव तत्र का परिदेवना ॥  02 :28

श्री भगवानुवाच

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे ।
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्त सञ्झके ॥  08 :18

श्री भगवानुवाच

अव्यक्तोऽक्षर इत्युक्तः तमाहुः परमां गतिम् ।
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥  08 :21

श्री भगवानुवाच

अव्यक्तोऽयं अचिन्त्योऽयं अविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हति ॥  02 :25

श्री भगवानुवाच

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ।
दम्भाहङ्कार संयुक्ताः कामरागबलान्विताः ॥  17 :5

श्री भगवानुवाच

अशोच्यान् अन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे ।
गतासून् अगतासूंश्च नानुशोचन्ति पण्डिताः ॥  02 :11

श्री भगवानुवाच

अश्रद्धधानाः पुरुषा धर्मस्यास्य परन्तप ।
अप्राप्य मां निवर्तन्ते मृत्यु संसार वर्त्मनि ॥  09 :3

श्री भगवानुवाच

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥  17 :28

श्री भगवानुवाच

अश्वत्थः सर्व वृक्षाणां देवर्षीनां च नारदः ।
गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥  10 :26

श्री भगवानुवाच

असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।
अभ्यासेन तु कौन्तेय वैराग्येन च गृह्यते ॥  06 :35

श्री भगवानुवाच

असंशयात्मना  योगो दुष्प्राप इति मे मतिः ।
वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥   06 :36

श्री भगवानुवाच

असक्तबुद्धिः सर्वत्र जितात्मा विगत स्पृहः ।
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥  18 :49

श्री भगवानुवाच

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।
नित्यं च सम चित्तत्वं इष्टानिष्टोपपत्तिषु ॥  13 :9

श्री भगवानुवाच

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्पर संभूतं किमन्यत्कामहैतुकम् ॥ 16 :8

श्री भगवानुवाच

असौ मया हतः शत्रुः हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥  16 :14

सञ्जय उवाच

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम ।
नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥  01 :7

श्री भगवानुवाच

अहं क्रतुरहं यज्ञः स्वधाहं अहमौषधम् ।
मन्त्रोऽहं अहमेवाज्यं अहमग्निरहं हुतम् ॥  09 :16

श्री भगवानुवाच

अहं वैश्वानरो भूत्वा प्राणिनां देहमाशृतः ।
प्राणापान समायुक्तः पचाम्यन्नं चतुर्विदम् ॥  15 :14

श्री भगवानुवाच

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भाव समन्विताः ॥  10 :8

श्री भगवानुवाच

अहं हि सर्व यज्ञानां भोक्ता च प्रभुरेव च ।
न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ॥  09 :24

श्री भगवानुवाच

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥  16 :18

श्री भगवानुवाच

अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् ।
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥  18 :53

श्री भगवानुवाच

अहमात्मा गुडाकेश सर्वभूताशयस्थितः ।
अहमादिश्च मध्यं च भूतानमन्त एव च ॥  10 :20

श्री भगवानुवाच

अहिंसा सत्यमक्रोधः त्यागः शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥  16 :2

श्री भगवानुवाच

अहिंसा समता तुष्टिः तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥  10 :5

अर्जुन उवाच

अहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥  10 :13

अर्जुन उवाच

अहो बत महापापं कर्तुं व्यवसिता वयम् ।
यद्राज्य सुख लोभेन हन्तुं स्वजनमुद्यताः ॥  01 :45


अर्जुन उवाच

आख्याहि मे को भवानुग्ररूपो
       नमोऽस्तु ते देववर प्रसीद ।
विज्ञातुमिच्छामि भवन्तमाद्यं
       नहि प्रजानामि तव प्रवृत्तिम् ॥  11 :31

अर्जुन उवाच

आचार्याः पितराः पुत्राः तथैव च पितामहाः ।
मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥  01 :34

श्री भगवानुवाच

आढ्योऽभिजनवानस्मि कोऽ न्योस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ॥  16 :15

श्री भगवानुवाच

आत्मसंभाविताः स्तब्धा धनमानमदान्विताः ।
यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥  16 :17

श्री भगवानुवाच

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगि परमो मतः ॥  06 :32

श्री भगवानुवाच

आदित्यानमहं विष्णुः ज्योतिषां रविरंशुमान् ।
मरीचिर्मरुतामस्मि नक्षत्राणां अहं शशी ॥  10 :21

श्री भगवानुवाच

आपूर्यमाणं अचल प्रतिष्ठं
समुद्रमापः प्रविशन्ति यद्वत् ।       
तद्वत्कामा यं प्रविशन्ति सर्वे
स शान्तिमाप्नोति न काम कामी ॥  02 :70

श्री भगवानुवाच

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन ।
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥  08 :16

श्री भगवानुवाच

आयुः सत्त्व बलारोग्य सुखप्रीति विवर्धनाः ।
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥  17 :8

श्री भगवानुवाच

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् ।
प्रजानश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ॥  10 :28

श्री भगवानुवाच

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारुढस्य तस्यैव शमः कारणमुच्यते ॥  06 :3

श्री भगवानुवाच

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा ।
कामरूपेण कौन्तेय दुष्पूरेणानलेन च ॥  03 :39

श्री भगवानुवाच

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः ।
ईहन्ते कामभोगार्थं अन्यायेनार्थसञ्चयान् ॥  16 :12

श्री भगवानुवाच

आश्चर्यवत् पश्यति कश्चिदेनं
          आश्चर्यवद्वदति तथैव चान्यः ।       
आश्चर्यवच्चैनमन्यः शृणोति
           शृत्वाप्येनं वेद न चैव कश्चित् ॥  02 :29

श्री भगवानुवाच

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥  16 :20

श्री भगवानुवाच

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः ।

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ॥  17 :7

श्री भगवानुवाच

इच्छा द्वेष समुत्थेन द्वन्द्व मोहेन भारत ।
सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ॥  07 :27

श्री भगवानुवाच

इच्छा द्वेषः सुखं दुःखं सङ्घातः चेतना धृतिः ।
एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ॥  13 :6

श्री भगवानुवाच

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः ।
मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ॥  13 :18

श्री भगवानुवाच

इति गुह्यतमं शास्त्रं इदमुक्तं मयानघ ।
एतत् बुद्ध्वा बुद्धिमान् स्यात् कृत कृत्यश्च भारत ॥  15 :20

श्री भगवानुवाच

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं परम् ।
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥  18 :63

सञ्जय उवाच

इत्यर्जुनं वासुदेवस्तथोक्त्वा
         स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
         भूत्वा पुनः सौम्यवपुर्महात्मा ॥  11 :50

सञ्जय उवाच

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः ।
संवादमिममश्रौषं अद्भुतं रोम हर्षणम् ॥ 18 :74

श्री भगवानुवाच

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥  14 :2

श्री भगवानुवाच

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥  09 :1

श्री भगवानुवाच

इदं ते नातपस्काय नाभक्ताय कदाचन ।
नचाशुश्रूषवे वाच्यं नच मां योऽभ्यसूयति ॥  18 :67

श्री भगवानुवाच

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥  13 :1

श्री भगवानुवाच

इदमद्य मया लब्धं इमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥  16 :13

श्री भगवानुवाच

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ ।
तयोर्न वशमागच्छेत् तौ ह्यस्य परिपन्थिनौ ॥  03 :34

श्री भगवानुवाच

इन्द्रियाणां हि चरतां यन्मनोऽ नुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥  02 :67

श्री भगवानुवाच

इन्द्रियाणि पराण्याहुः इन्द्रियेभ्यः परं मनः ।
मनसस्तु परा बुद्धिः यो बुद्धेः परतस्तु सः ॥  03 :42

श्री भगवानुवाच

इन्द्रियाणि मनो बुद्धिः अस्याधिष्ठानमुच्यते ।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ॥  03 :40

श्री भगवानुवाच

इन्द्रियार्थेषु वैराग्यं अनहङ्कार एव च ।
जन्म मृत्यु जरा व्याधि दुःख दोषानुदर्शनम् ॥  13 :8

श्री भगवानुवाच

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् ।
विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ॥  04 :1

श्री भगवानुवाच

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञ भाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥  03 :12

श्री भगवानुवाच

इहैकस्थं जगत् कृत्स्नं पश्याद्य सचराचरम् ।
मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ॥  11 :7

श्री भगवानुवाच

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ॥  05 :19


श्री भगवानुवाच

ईश्वरः सर्व भूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥  18 :61

श्री भगवानुवाच

उच्चैः श्रवसमश्वानां विद्धि माममृतोद्भवम् ।
ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ॥  10 :27

श्री भगवानुवाच

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितं ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञान चक्षुषः ॥  15 :10

श्री भगवानुवाच

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥  15 :17

अर्जुन उवाच

उत्सन्न कुलधर्माणां मनुष्याणां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥  01 :44

श्री भगवानुवाच

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् ।

सङ्करस्य च कर्ता स्याम् उपहन्यामिमाः प्रजाः ॥  03 :24

श्री भगवानुवाच

उदाराः सर्व एवैते ज्ञानी त्वामैव मे मतम् ।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ॥  07 :18

श्री भगवानुवाच

उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
 गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥  14 :23

श्री भगवानुवाच

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः ॥  06 :5

श्री भगवानुवाच

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः ।
परमात्मेति चाप्युक्तो देहेऽस्मिन् पुरुषः परः ॥  13 :22

श्री भगवानुवाच

ऊर्ध्व मूलमधः शाखं अश्वत्थं प्राहुरव्ययम् ।
चन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥ 15 :1

श्री भगवानुवाच

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः ।
जघन्यगुण वृत्तिस्था अधो गच्छन्ति तामसाः ॥  14 :18

 

श्री भगवानुवाच

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्म सूत्र पदैश्चैव हेतुमद्भिर्विनिश्चितैः ॥  13 :4

सञ्जय उवाच

एतत् श्रुत्वा वचनं केशवस्य
       कृताञ्जलिः वेपमानः किरीटी ।
नमस्कृत्वा भूय एवाह कृष्णं
       सगद्गदं भीत भीतः प्रणम्य ॥  11 :35

श्री भगवानुवाच

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥  07 :6

अर्जुन उवाच

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः ।
त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ॥  06 :39

श्री भगवानुवाच

एतां दृष्टिमवष्टभ्य नष्टमानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥  16 :9

श्री भगवानुवाच

एतां विभूतिं योगं च मम यो वेत्ति तत्वतः ।
सोऽविकम्पेन योगेन युज्यते नात्र संशयः ॥  10 :7

अर्जुन उवाच

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन ।
अपि त्रैलोक्य राज्यस्य हेतोः किं नु महीकृते ॥  01 :35

श्री भगवानुवाच

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमं ॥  18 :6

श्री भगवानुवाच

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः ।
आचारत्यात्मनः श्रेयः ततो याति परां गतिम् ॥  16 :22

श्री भगवानुवाच

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥  04 :15

श्री भगवानुवाच

एवं परम्पराप्राप्तं इमं राजर्षयो विदुः ।
        स कालेनेह महता योगो नष्टः परन्तप ॥  04 :2

श्री भगवानुवाच

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः ।
अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ॥  03 :16

श्री भगवानुवाच

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।
कर्मजान्विद्धि तान्सर्वान् एवं ज्ञात्वा विमोक्ष्यसे ॥  04 :32

श्री भगवानुवाच

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना ।
जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥  03 :43

अर्जुन उवाच

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योग वित्तमाः ॥  12 :1

सञ्जय उवाच

एवमुक्तो हृषीकेशो गुडाकेशेन भारत ।
सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥  01 :24

सञ्जय उवाच

एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः ।
दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥  11 :9

सञ्जय उवाच

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः ।

न योत्स्य इति गोविन्दं उक्त्वा तूर्ष्णीं बभूव ह ॥  02 :9

सञ्जय उवाच

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् ।
विसृज्य सशरं चापं शोक संविग्न मानसः ॥  01 :47

अर्जुन उवाच

एवमेतद्यथात्थ त्वं त्वात्मानं परमेश्वर ।
द्रष्टुमिच्छामि ते रूपं ऐश्वरं पुरुषोत्तम ॥  11 :3

श्री भगवानुवाच

एषा तेऽभिहता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु ।
बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ॥  02 :39

श्री भगवानुवाच

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति ।
स्थित्वाऽस्यामन्त कालेऽपि ब्रह्म निर्वाणमृच्छति ॥  02 :72

श्री भगवानुवाच

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥  08 :13

श्री भगवानुवाच

ओम् तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ॥  17 :23

अर्जुन उवाच

कच्चिन्नोभयविभ्रष्टः छिन्नाभ्रमिव नश्यति ।
अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ॥  06 :38

श्री भगवानुवाच

कट्वम्ललवणात्युष्ण तीक्ष्ण रूक्ष विदाहिनः ।
आहारा राजसस्येष्टा दुःख शोकामयप्रदाः ॥  17 :9

अर्जुन उवाच

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् ।
कुलक्षय कृतं दोषं प्रपश्यद्भिर्जनार्दन ॥  01 :39

अर्जुन उवाच

कथं भीष्ममहं साङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥  02 :4

अर्जुन उवाच

कथं विद्यामहं योगिंस् त्वां सदा परिचिन्तयन् ।
केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ॥  10 :17

श्री भगवानुवाच

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षर समुद्भवम् ।
तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ॥  03 :15

श्री भगवानुवाच

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः ।
        जन्म बन्ध विनिर्मुक्ताः पदं गच्छन्त्यनामयम् ॥  02 :51

श्री भगवानुवाच

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखं अज्ञानं तमसः फलम् ॥  14 :16

श्री भगवानुवाच

कर्मणैव हि संसिद्धं आस्थिता जनकादयः ।
        लोकसङ्ग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ॥  03 :20

श्री भगवानुवाच

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
        अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥  04 :17

श्री भगवानुवाच

कर्मण्यकर्म यः पश्येद् अकर्मणि च कर्म यः ।
        स बुद्धिमान्मनुष्येषु युक्तः कृत्स्नमकर्मकृत् ॥  04 :18

श्री भगवानुवाच

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
        मा कर्म फल हेतुर्भूः मा ते सङ्गोऽस्त्वकर्मणि ॥  02 :47

श्री भगवानुवाच

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् ।
        इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ॥  03 :6

श्री भगवानुवाच

कर्शयन्तः शरीरस्थं भूतग्राममचेतसः ।
मां चैवान्तः शरीरस्थं तान्विद्ध्यासुर निश्चयान् ॥  17 :6

श्री भगवानुवाच

कविं पुराणमनुशासितारं
          अणोरणीयांसमनुस्मरेद्यः ।
सर्वस्य धातारमचिन्त्यरूपं
         आदित्यवर्णं तमसः परस्तात् ॥  08 :9

श्री भगवानुवाच

कश्चिदेतत्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा ।
कच्चिदज्ञान सम्मोहः प्रनष्टस्ते धनञ्जय ॥  18 :72

अर्जुन उवाच

कस्माच्च ते न नमेरन् महात्मन्
       गरीयसे ब्रह्मणोऽप्यादिकर्त्रे ।
अनन्त देवेश जगन्निवास
        त्वमक्षरं सदसत् तत्परं यत् ॥  11 :37

श्री भगवानुवाच

काङ्क्षतः कर्मणां सिद्धिं यजन्त इह देवताः ।
       क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ॥  04 :12

श्री भगवानुवाच

काम एष क्रोध एष रजोगुण समुद्भवः ।
        महाशनो महापाप्मा  विद्ध्येनमिह वैरिणम् ॥  03 :37

श्री भगवानुवाच

कामक्रोध वियुक्तानां यतीनां यतचेतसाम् ।
        अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥  05 :26

श्री भगवानुवाच

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः ।
मोहाद्गृहीत्वाऽसद्ग्राहान् प्रवर्तन्तेऽशुचिव्रताः ॥  16 :10

श्री भगवानुवाच

कामात्मनः स्वर्गपरा जन्म कर्म फलप्रदाम् ।
        क्रिया विशेष बहुलां भोगैश्वर्य गतिं प्रति ॥  02 :43

श्री भगवानुवाच

कामैस् तैस्तैर्हृत ज्ञानाः प्रपद्यन्तेऽ न्य देवताः ।
तं तं नियममास्थाय प्रकृत्या नियताः स्वया ॥  07 :20

श्री भगवानुवाच

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्वकर्म फल त्यागं प्राहुस्त्यागं विचक्षणाः ॥   18 :2

श्री भगवानुवाच

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
        योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥  05 :11

अर्जुन उवाच

कार्पण्य दोषोपहत स्वभावः
         पृच्छामि त्वां धर्म सम्मूढचेताः ।       
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
          शिष्यस्तेऽहं शाधि मां त्वं प्रपन्नम् ॥  02 :7

श्री भगवानुवाच

कार्य कारण कर्तृत्वे हेतुः प्रकृतिरुच्यते ।
पुरुषः सुख दुःखानां भोक्तृत्वे हेतुरुच्यते ॥  13 :20

श्री भगवानुवाच

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ।
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ॥  18 :9

श्री भगवानुवाच

कालोऽस्मि लोक क्षयकृत्प्रवृद्धो
       लोकान्समाहर्तुमिह प्रवृत्तः ।
ऋतेऽपि त्वां न भविश्यन्ति सर्वे
       येऽवस्थिताः प्रत्यनीकेषु योधाः ॥  11 :32

सञ्जय उवाच

काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
        धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥  01 :17

श्री भगवानुवाच

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
        तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यतेऽशुभात् ॥  04 :16

अर्जुन उवाच

किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम ।
अधिभूतं च किं प्रोक्तं अधिदैवं किमुच्यते ॥  08 :1

श्री भगवानुवाच

किं पुनर्ब्राह्मणाः पुण्याः भक्ता राजर्षयस्तथा ।
अनित्यं असुखं लोकं इमं प्राप्य भजस्व माम् ॥  09 :33

अर्जुन उवाच

किरीटिनं गदिनं चक्रहस्तं
          इच्छामि त्वां द्रष्टुमहं तथैव ।
तेनैव  रूपेण चतुर्भुजेन
         सहस्रबाहो भव विश्वमूर्ते ॥  11 :46

अर्जुन उवाच

किरीटिनं गदिनं चक्रिणं चतेजोराशिं सर्वतो दीप्तिमन्तम् ।
पश्यामि त्वां दुर्निर्रिक्ष्यं समन्तात्दीप्तानलार्क द्युतिमप्रमेयम् ॥  11 :17

श्री भगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
        अनार्यजुष्टमस्वर्ग्यं अकीर्तिकरमर्जुन ॥  02 :2

अर्जुन उवाच

कुलक्षये प्रणश्यन्ति कुल धर्माः सनातनाः ।
        धर्मे नष्टे कुलं कृत्स्नं अधर्मोऽभिभवत्युत ॥  01 :40

सञ्जय उवाच

कृपया परयाविष्टो विषीदन्निदमब्रवीत् ॥        01 :28
अर्जुन उवाच
दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥  01 :28

श्री भगवानुवाच

कृषि गौरक्ष्य वाणिज्यं वैश्य कर्म स्वभावजम् ।
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥  18 :44

अर्जुन उवाच

कैर्लिङ्गैस्त्रीन् गुणानेतान् अतीतो भवति प्रभो ।
किमाचारः कथं चैतान्स् त्रीन्गुणानतिवर्तते ॥  14 :21

श्री भगवानुवाच

क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति विभ्रमः ।
        स्मृति भ्रंशाद् बुद्धिनाशः बुद्धिनाशो प्रणश्यति ॥  02 :63

श्री भगवानुवाच

क्लेशोऽधिकतरस्तेषां अव्यक्तासक्त चेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ॥  12 :5

श्री भगवानुवाच

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
        क्षुद्रं हृदय दौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥  02 :3

श्री भगवानुवाच

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥  04 :23

श्री भगवानुवाच

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् ।
प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ॥  09 :18

अर्जुन उवाच

गाण्डीवं स्रंसते हस्तात् त्वक्चैव परिदह्यते ।
न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥  01 :30

श्री भगवानुवाच

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥  15 :13

श्री भगवानुवाच

गुणानेताननीत्य त्रीन् देही देह समुद्भवान् ।
जन्म मृत्यु जरा दुःखैः विमुक्तोऽमृतमश्नुते ॥  14 :20

अर्जुन उवाच

गुर्रुनहत्वा हि महानुभावान्
          श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।       
हत्वाऽर्थ कामांस्तु गुरूनिहैव
          भुञ्जीय भोगान् रुधिरप्रदिग्धान् ॥  02 :5

अर्जुन उवाच

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् ।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ॥  06 :34

श्री भगवानुवाच

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥  07 :16

श्री भगवानुवाच

चातुर्वर्ण्यं मयासृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥  04 :13

श्री भगवानुवाच

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः ।
कामोपभोगपरमा एतावदिति निश्चिताः ॥  16 :11

श्री भगवानुवाच

चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।
बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥  18 :57

श्री भगवानुवाच

जन्म कर्म च मे दिव्यं एवं यो वेत्ति तत्त्वतः ।
        त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ॥  04 :9

श्री भगवानुवाच

जरामरण मोक्षाय मामाश्रित्य यतन्ति ये ।
ते ब्रह्म तद्विदुः कृत्स्नं अध्यात्मं कर्म चाखिलम् ॥  07 :29

श्री भगवानुवाच

जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च ।
        तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥  02 :27

श्री भगवानुवाच

जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
        शीतोष्ण सुख दुःखेषु तथा मानापमानयोः ॥  06 :7

अर्जुन उवाच

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन ।
        तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥  03 :1

श्री भगवानुवाच

ज्योतिषामपि तज्ज्योतिः तमसः परमुच्यते ।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ॥  13 :17

सञ्जय उवाच

तं तथा कृपयाऽऽविष्टं अश्रुपूर्णाकुलेक्षणम् ।
विषीदन्तमिदं वाक्यं उवाच मधुसूदनः ॥  02 :1

श्री भगवानुवाच

तं विद्याद् दुःख संयोग वियोगं योग सञ्जितम् ।
स निश्चयेन योक्तव्यो योगोऽ निर्विण्ण चेतसा ॥  06 :23

सञ्जय उवाच

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः ।
विस्मयो मे महान् राजन् हृष्यामि च पुनः पुनः ॥  18 :77

श्री भगवानुवाच

ततः पदं तत् परिमार्गितव्यं
       यस्मिन् गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये
         यतः प्रवृत्तिः प्रसृता पुराणी ॥  15 :4

सञ्जय उवाच

ततः शङ्खाश्च भेर्यश्च पणवानक गोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥  01 :13

सञ्जय उवाच

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥  01 :14

सञ्जय उवाच

ततः स विस्मयाविष्टो हृष्ट रोमा धनञ्जयः ।
प्रणम्य शिरसा देवं कृतान्जलिरभाषत ॥  11 :14

श्री भगवानुवाच

तत्क्षेत्रं यच्च यादृक् च यद्विकारि यतश्च यत् ।
स च यो यत् प्रभावश्च तत् समासेन मे शृणु ॥  13 :3

श्री भगवानुवाच

तत्तदग्रे विषमिव परिणामेऽमृतोपमं ।
तत्सुखं सात्त्विकं प्रोक्तं आत्म बुद्धि प्रसादजम् ॥  18 :37

श्री भगवानुवाच

तत्त्ववित्तु महाबाहो गुणकर्म विभागयोः ।
गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ॥  03 :28

श्री भगवानुवाच

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरु नन्दन ॥  06 :43

श्री भगवानुवाच

तत्र सत्त्वं निर्मलत्वात् प्रकाशकमनामयम् ।
सुख सङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥  14 :6

सञ्जय उवाच

तत्रापश्यत्स्थितान् पार्थः पितॄनथ पिहामहान् ।
आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखींस्तथा ॥  01 :26

सञ्जय उवाच

तत्रैकस्थं जगत् कृत्स्नं प्रविभक्तमनेकधा ।
अपश्यद् देव देवस्य शरीरे पाण्डवस्तदा ॥  11 :13

श्री भगवानुवाच

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः ।
उपविश्यासने युञ्जात् योगमात्मविशुद्धये ॥  06 :12

श्री भगवानुवाच

तत्रैव सति कर्तारं आत्मानं केवलं तु यः ।
पश्यत्यकृत बुद्ध्यत्वात् न स पश्यति दुर्मतिः ॥  18 :16

श्री भगवानुवाच

तदित्यनभिसन्धाय फलं यज्ञ तपः क्रियाः ।
दानक्रियाश्च विविधाः क्रियन्ते मोक्ष काङ्क्षिभिः ॥  17 :25

श्री भगवानुवाच

तद्बुद्धयस्तदात्मानः तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञान निर्धूत कल्मषाः ॥  05 :17

श्री भगवानुवाच

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥  04 :34

श्री भगवानुवाच

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥  06 :46

श्री भगवानुवाच

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च ।
अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ॥  09 :19

श्री भगवानुवाच

तमस्त्वज्ञानजं विद्धि मोहनं सर्व देहिनाम् ।
प्रमादालस्य निद्राभिः तन्निबध्नाति भारत ॥  14 :8

सञ्जय उवाच

तमुवाच हृषीकेशः प्रहसन्निव भारत ।
सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥  02 :10

श्री भगवानुवाच

तमेव शरणं गच्छ सर्वभावेन भारत ।
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यति शाश्वतम् ॥  18 :62

श्री भगवानुवाच

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्र विधानोक्तं कर्म कर्तुमिहार्हसि ॥  16 :24

अर्जुन उवाच

तस्मात् प्रणम्य प्रणिधाय कायं
          प्रसादय त्वां अहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
         प्रियः प्रियायार्हसि देव सोढुम् ॥  11 :44

श्री भगवानुवाच

तस्मात् सर्वेषु कालेषु मामनुस्मर युध्य च ।
मय्यर्पित मनोबुद्धिः मामेवैष्यस्यसंशयः ॥  08 :7

श्री भगवानुवाच

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ ।
पाप्मानं प्रजहि ह्येनं ज्ञान विज्ञान नाशनम् ॥  03 :41

श्री भगवानुवाच

तस्मात्त्वमुत्तिष्ठ यशो लभस्व
       जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् ।
मयैवैते निहताः पूर्वमेव
       निमित्त मात्रं भव सव्यसाचिन् ॥  11 :33

श्री भगवानुवाच

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगं आतिष्ठोत्तिष्ठ भारत ॥  04 :42

श्री भगवानुवाच

तस्मादसक्तः सततं कार्यं कर्म समाचर ।
असक्तो ह्याचरन् कर्म परमाप्नोति पूरुषः ॥  03 :19

श्री भगवानुवाच

तस्मादोमित्युदाहृत्य यज्ञदानतपः क्रियाः ।
प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ॥  17 :24

श्री भगवानुवाच

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥  02 :68

अर्जुन उवाच

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥  01 :37

सञ्जय उवाच

तस्य सञ्जनयन् हर्षं कुरु वृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥  01 :12

श्री भगवानुवाच

तानहं द्विशतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभान् आसुरीष्वेव योनिषु ॥  16 :19

श्री भगवानुवाच

तानि सर्वाणि संयम्य युक्त आसीत मत्परः ।
वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ॥  02 :61

श्री भगवानुवाच

तुल्य निन्दा स्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेतः स्थिरमतिः भक्तिमान् मे प्रियो नरः ॥  12 :19

श्री भगवानुवाच

ते तं भुक्त्वा स्वर्गलोकं विशालं
       क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयी धर्मं अनुप्रपन्ना
       गतागतं कामकामा लभन्ते ॥  09 :21

श्री भगवानुवाच

तेजः क्षमा धृतिः शौचं अद्रोहो नाति मानिता ।
भवन्ति संपदं दैवीम् अभिजातस्य भारत ॥  16 :3

श्री भगवानुवाच

तेषां ज्ञानी नित्य युक्त एक भक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थं अहं स च मम प्रियः ॥  07 :17

श्री भगवानुवाच

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥  10 :10

श्री भगवानुवाच

तेषामहं समुद्धर्ता मृत्यु संसार सागरात् ।
भवामि नचिरात् पार्थ मय्यावेशित चेतसाम् ॥  12 :7

श्री भगवानुवाच

तेषामेवानुकम्पार्थं अहमज्ञानजं तमः ।
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥  10 :11

श्री भगवानुवाच

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभि प्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥  04 :20

श्री भगवानुवाच

त्याज्यं दोषवदित्येके कर्म बाहुर्मनीषिणः ।
यज्ञ दान तपः कर्म न त्याज्यमिति चापरे ॥  18 :3

अर्जुन उवाच

त्वमक्षरं परमं वेदितव्यं
         त्वमस्य विश्वस्य परं निधानम् ।
त्वमव्ययः शाश्वत धर्म गोप्ता
        सनातनस्त्वम् पुरुषो मतो मे ॥  11 :18

अर्जुन उवाच

त्वमादिदेवः पुरुषः पुराणः
       त्वमस्य विश्वस्य परं निधानम् ।
वेत्तासि वेद्यं च परं च धाम
       त्वया ततं विश्वमनन्त रूपम् ॥  11 :38

अर्जुन उवाच

दंष्ट्राकरालानि च ते मुखानि
         दृष्ट्वैव कालानल सन्निभानि ।
दिशो न जाने न लभे न शर्म 
         प्रसीद देवेश जगन्निवास ॥  11 :25

श्री भगवानुवाच

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् ।
मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ॥  10 :38

श्री भगवानुवाच

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥  16 :4

श्री भगवानुवाच

दातव्यमिति यद्दानं दीयतेऽ नुपकारिणे ।
 देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ॥  17 :20

सञ्जय उवाच

दिवि सूर्य सहस्रस्य भवेद् युगपदुत्थिथा ।
यदि भाः सदृशी सा स्यात् भासस्तस्य महात्मनः ॥  11 :12

सञ्जय उवाच

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनं ।
सर्वाश्चर्य मयं देवं अनन्तं विश्वतोमुखम् ॥  11 :11

श्री भगवानुवाच

दुःखमित्येव यत्कर्म कायक्लेष भयात्त्यजेत् ।
स कृत्वा राजसं त्यागं नैव त्याग फलं लभेत् ॥  18 :8

श्री भगवानुवाच

दुःखेष्वनुद्विग्न मनाः सुखेषु विगत स्पृहः ।
वीत राग भय क्रोधः स्थितधीर्मुनिरुच्यते ॥  02 :56

श्री भगवानुवाच

दूरेण ह्यवरं कर्म बुद्धियोगाद् धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फल हेतवः ॥  02 :49

सञ्जय उवाच

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।
आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥  01 :2

अर्जुन उवाच

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥  11 :51

श्री भगवानुवाच

देवद्विजगुरुप्राज्ञ पूजनं शौचमार्जवम् ।
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ॥  17 :14

श्री भगवानुवाच

देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥  03 :11

श्री भगवानुवाच

देहिनोऽस्मिन् यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिः धीरस्तत्र न मुह्यति ॥  02 :13

श्री भगवानुवाच

देही नित्यमवध्योऽयं देहे सर्वस्य भारत ।
तस्मात् सर्वाणि भूतानि न त्वं शोचितुमर्हसि ॥  02 :30

श्री भगवानुवाच

दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥  04 :25

श्री भगवानुवाच

दैवी सम्पाद्विमोक्षाय निभन्धायासुरी मता ।
मा शुचः सम्पदं दैवीं अभिजातोऽसि पाण्डव ॥  16 :5

श्री भगवानुवाच

दैवी ह्येशा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥  07 :14

अर्जुन उवाच

दोषेरैतैः कुलघ्नानां  वर्ण सङ्कर कारकैः ।
उत्साद्यन्ते जाति धर्माः कुलधर्माश्च शाश्वताः ॥   01 :43

अर्जुन उवाच

द्यावा पृथिव्योरिदमन्तरं हि
          व्याप्तं त्वयैकेन दिशश्च सर्वाः ।
दृश्ट्वाद्भुतं रूपमुग्रं तवेदं
         लोकत्रयं प्रव्यथिथं महात्मन् ॥  11 :20

श्री भगवानुवाच

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् ।
जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतां अहम् ॥ 10 :36

श्री भगवानुवाच

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथाऽपरे ।
स्वाध्याय ज्ञान यज्ञश्च यतयः संशितव्रताः ॥  04 :28

सञ्जय उवाच

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान् दध्मुः पृथक् पृथक् ॥1 :18

श्री भगवानुवाच

द्रोणं च भीमं च जयद्रथं च
        कर्णं तथान्यानपि योध वीरान् ।
मया हतांस्त्वं जहि मा व्यथिष्ठाः
       युध्यस्व जेतासि रणे सपत्नान् ॥  11 :34

श्री भगवानुवाच

द्वाविमौ पुरुषौ लोके क्षराश्चाक्षर एव च ।
क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥  15 :16

श्री भगवानुवाच

द्वौ भूत सर्गो लोकेऽस्मिन् दैव आसुर एव च ।
दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ॥  16 :6

धृतराष्ट्र उवाच

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।      
         मामकाः पाण्डवाः चैव किमकुर्वत सञ्जय ॥  01 :1

श्री भगवानुवाच

धूमेनाव्रियते वह्निः यथाऽदर्शो मलेन च ।
        यथोल्बेनावृतो गर्भः तथा तेनेदमावृतम् ॥  03 :38

श्री भगवानुवाच

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् ।
तत्र चान्द्रमसं ज्योतिः योगी प्राप्य निवर्तते ॥  08 :25

श्री भगवानुवाच

धृत्या यया धारयते मनः प्राणेन्द्रियक्रियाः ।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥  18 :33

सञ्जय उवाच

धृष्ट केतुः चैकितानः काशिराजश्च वीर्यवान् ।
        पुरुजित् कुन्ति भोजश्च शैब्यश्च नर पुङ्गवः ॥  01 :5

श्री भगवानुवाच

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ॥  13 :24

श्री भगवानुवाच

ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।
        सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते ॥  02 :62

श्री भगवानुवाच

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफल संयोगं स्वभावस्तु प्रवर्तते ॥  05 :14

श्री भगवानुवाच

न कर्मणामनारम्भान् नैष्कर्म्यं पुरुषोऽश्नुते ।
न च सन्न्यसनादेव सिद्धिं समधिगच्छति ॥  03 :4

अर्जुन उवाच

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च ।
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥  01 :32

श्री भगवानुवाच

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः ।
भविता न च मे तस्मात् अन्यः प्रियतरो भुवि ॥  18 :69

श्री भगवानुवाच

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ।
भूतभृन्न च भूतस्थो ममात्मा भूत भावनः ॥  09 :5

श्री भगवानुवाच

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय ।
उदासीनवदासीनं असक्तं तेषु कर्मसु ॥  09 :9

अर्जुन उवाच

न चैतद् विद्मः कतरन् नो गरीयो
           यद्वा जयेम यदि वा नो जयेयुः ।       
यानेव हत्वा न जिजीविषामस्
       तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥  02 :6

श्री भगवानुवाच

न जायते म्रियते वा कदाचित्
         नायं भूत्वा भविता वा न भूयः ।       
अजो नित्यः शाश्वतोऽयं पुराणो
         न हन्यते हन्यमाने शरीरे ॥  02 :20

श्री भगवानुवाच

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः ।
सत्त्वं प्र्कृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ॥ 18 :40

श्री भगवानुवाच

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥  15 :6

श्री भगवानुवाच

न तु मां शक्यसे द्रष्टुं अनेनैव स्व चक्षुषा ।
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥  11 :8

श्री भगवानुवाच

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
न चैव न भविष्यामः सर्वे वयमतः परम् ॥  02 :12

श्री भगवानुवाच

न द्वेष्ट्यकुशलं कर्म कुशले ननुषज्जते ।
त्यागी सत्त्व समाविष्टो मेधावी छिन्नसंशयः ॥  18 :10

श्री भगवानुवाच

न प्रहृष्येत्परं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् ।
स्थिरबुद्धिरसम्मुढो ब्रह्मविद् ब्रह्मणि स्थितः ॥  05 :20

श्री भगवानुवाच

न बुद्धिभेदं जनयेत् अज्ञानां कर्मसङ्गिनाम् ।
जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ॥  03 :26

श्री भगवानुवाच

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥  04 :14

श्री भगवानुवाच

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः ।
माययाऽपहृत ज्ञाना आसुरं भावमाश्रिताः ॥  07 :15

श्री भगवानुवाच

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ॥  03 :22

श्री भगवानुवाच

न मे विदुः सुरगणाः प्रभवं न महर्षयः ।
अहमादिर्हि देवानां महर्षीणां च सर्वशः ॥  10 :2

श्री भगवानुवाच

न रूपमस्येह तथोपलभ्यते
         नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढ मूलं
         असङ्ग शस्त्रेण दृढेन छित्त्वा ॥  15 :3

श्री भगवानुवाच

न वेदयज्ञाध्ययनैर्न दानैः
         न च क्रियाभिर्न तपोभिरुग्रैः ।
एवंरूपः शक्य अहं नृलोके
         द्रष्टुं त्वदन्येन कुरुप्रवीर ॥  11 :48

श्री भगवानुवाच

न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् ।
कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ॥  03 :5

श्री भगवानुवाच

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥  04 :38

श्री भगवानुवाच

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः ।
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥  18 :11

अर्जुन उवाच

न हि प्रपश्यामि ममापनुद्याद्
         यच्छोकमुच्छोषणमिन्द्रियाणाम् ।       
अवाप्य भूमौ असपत्नमृद्धं
          राज्यं सुराणामपि चाधिपत्यम् ॥  02 :8

अर्जुन उवाच

नभः स्पृशं दीप्तमनेकवर्णं
       व्यात्ताननं दीप्त विशाल नेत्रम् ।
दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा
       धृतिं न विन्दामि शमं च विष्णो ॥  11 :24

अर्जुन उवाच

नमः पुरस्तादथ पृष्ठतस्ते
        नमोऽस्तु ते सर्वत एव सर्व ।
अनन्त वीर्यामित विक्रमस्त्वं
       सर्वं समाप्नोषि ततोऽसि सर्वः ॥  11 :40

अर्जुन उवाच

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत ।
स्थितोऽस्मि गत सन्देहः करिष्ये वचनं तव ॥  18 :73

श्री भगवानुवाच

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः ।
न चाति स्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥  06 :16

श्री भगवानुवाच

नादत्ते कस्यचित् पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥  05 :15

श्री भगवानुवाच

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप ।
एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ॥  10 :40

श्री भगवानुवाच

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥  14 :19

श्री भगवानुवाच

नासतो विद्यते भावो नाभावो विद्यते सतः ।
उभयोरपि दृष्टोऽ न्तः त्वनयोस्तत्त्व दर्शिभिः ॥  02 :16

श्री भगवानुवाच

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना ।
न चाभावयतः शान्तिः अशान्तस्य कुतः सुखम् ॥  02 :66

श्री भगवानुवाच

नाहं प्रकाशः सर्वस्य योगमाया समावृतः ।
मूढोऽयं नाभिजानाति लोको मां अजं अव्ययम् ॥  07 :25

श्री भगवानुवाच

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥  11 :53

अर्जुन उवाच

निमित्तानि च पश्यामि विपरीतानि केशव ।
न च श्रेयोऽ नुपश्यामि हत्वा स्वजनमाहवे ॥  01 :31

श्री भगवानुवाच

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः ।
शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ॥  03 :8

श्री भगवानुवाच

नियतं सङ्ग रहितं अरागद्वेषतः कृतम् ।
अफल प्रेप्सुना कर्म यत्तत्सात्विकमुच्यते ॥  18 :23

श्री भगवानुवाच

नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागः तामसः परिकीर्तितः ॥  18 :7

श्री भगवानुवाच

निराशीर्यतचित्तात्मा त्यक्त सर्व परिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥  04 :21

श्री भगवानुवाच

निर्मान मोहा जित सङ्ग दोषा
         अध्यात्म नित्या विनिवृत्त कामाः ।
द्वन्द्वैर्विमुक्तः सुख दुःख सञ्ज्ञैः
        गच्छन्ति मूढाः पदमव्ययं तत् ॥  15 :5

श्री भगवानुवाच

निश्चयं शृणु मे तत्र त्यागे भरत सत्तम ।
त्यागो हि पुरुष व्याघ्र त्रिविदः संप्रकीर्तितः ॥  18 :4

अर्जुन उवाच

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन ।
पापमेवाश्रयेदस्मान् हत्वैतान् आततायिनः ॥  01 :36

श्री भगवानुवाच

नेहाभिक्रम नाशोऽस्ति प्रत्यवायो न विद्यते ।
स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ॥  02 :40

श्री भगवानुवाच

नैते सृती पार्थ जानन् योगी मुह्यति कश्चन ।
तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥  08 :27

श्री भगवानुवाच

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः ।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ॥  02 :23

श्री भगवानुवाच

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपन् श्वसन् ॥  05 :8

श्री भगवानुवाच

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन ।
न चास्य सर्वभूतेषु कश्चिदर्थ व्यपाश्रयः ॥  03 :18

श्री भगवानुवाच

पञ्चैतानि महाबाहो कारणानि निबोध मे ।
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्व कर्मणाम् ॥ 18 :13

श्री भगवानुवाच

पत्रं पुष्पं फलं तोयम् यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहृतं अश्नामि प्रयतात्मनः ॥  09 :26

अर्जुन उवाच

परं ब्रह्म परं धाम पवित्रं परमं भवान् ।
पुरुषं शश्वतं दिव्यं आदिदेवमजं विभुं ॥  10 :12

श्री भगवानुवाच

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ॥  14 :1

श्री भगवानुवाच

परस्तस्मात्तु भावोऽ न्योऽव्यक्तो ऽव्यक्तात्सनातनः ।
यः स सर्वेषु भुतेषु नश्यत्सु न विनश्यति ॥  08 :20

श्री भगवानुवाच

परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ॥  04 :8

श्री भगवानुवाच

पवनः  पवतामस्मि रामः शस्त्रभृतामहम् ।
झषानां मकरश्चास्मि स्रोतसामस्मि जाह्नवि ॥  10 :31

श्री भगवानुवाच

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः ।
नानाविधानि दिव्यानि  नानावर्णाकृतीनि च ॥  11 :5

श्री भगवानुवाच

पश्यादित्यान् वसून् रुद्रान् अश्विनौ मरुतस्तथा ।
बहून्यदृष्ट पूर्वाणि पश्याश्चर्याणि भारत ॥  11 :6

अर्जुन उवाच

पश्यामि देवांस्तव देव देहे
        सर्वांस्तथा भूत विशेष सङ्घान् ।
ब्रह्माणमीशं कमलासनस्थं
         ऋषींश्च सर्वानुरगांश्च दिव्यान् ॥  11 :15

सञ्जय उवाच

पश्यैतां पाण्डु पुत्राणां आचार्य महतीं चमूम् ।
व्यूढां द्रुपद पुत्रेण तव शिष्येण धीमता ॥  01 :3

सञ्जय उवाच

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः ।
पौण्ड्रं दध्मौ महा शङ्खं भीमकर्मा वृकोदरः ॥  01 :15

श्री भगवानुवाच

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते ।
न हि कल्यान कृत्कश्चिद् दुर्गतिं तात गच्छति ॥  06 :40

अर्जुन उवाच

पितासि लोकस्य चराचरस्य
         त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत् समोऽस्त्यभ्यधिकः कुतोऽ न्यः
        लोकत्रयेऽप्यप्रतिमप्रभाव ॥  11 :43

श्री भगवानुवाच

पिताहमस्य जगतो माता धाता पितामहः ।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च ॥  09 :17

श्री भगवानुवाच

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ ।
जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ॥   07 :9

श्री भगवानुवाच

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान् गुणान् ।
कारणं गुण सङ्गोऽस्य सदसद्योनि जन्मसु ॥  13 :21

श्री भगवानुवाच

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ।
यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम् ॥  08 :22

श्री भगवानुवाच

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् ।
सेनानीनामहं स्कन्दः सरसामस्मि सागरः ॥  10 :24

श्री भगवानुवाच

पूर्वाभ्यासेन तेनैव ह्रियते ह्यविशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मादि वर्तते ॥ 06 :44

श्री भगवानुवाच

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् ।
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥  18 :21

श्री भगवानुवाच

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥  14 :22

श्री भगवानुवाच

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि ।
विकारांश्च गुणांश्चैव विद्धि प्रकृति सम्भवान् ॥  13 :19

श्री भगवानुवाच

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः ।
भूतग्राममिमं कृत्स्नं अवशम् प्रकृतेर्वशात् ॥  09 :8

श्री भगवानुवाच

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कार विमूढात्मा कर्ताहमिति मन्यते ॥  03 :27

श्री भगवानुवाच

प्रकृतेर्गुण सम्मूढाः सज्जन्ते गुण कर्मसु ।
तानकृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत् ॥  03 :29

श्री भगवानुवाच

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः ।
यः पश्यति तथात्मानं अकर्तारं स पश्यति ॥  13 :29

श्री भगवानुवाच

प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् ।
आत्मन्येवात्मना तुष्टः स्थित प्रज्ञस्तदोच्यते ॥  02 :55

श्री भगवानुवाच

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिशः ।
अनेकजन्म संसिद्धः ततो याति परां गतिम् ॥  06 :45

श्री भगवानुवाच

प्रयाणकाले मनसाऽचलेन
          भक्त्या युक्तो योगबलेन चैव ।
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
          स तं परं पुरुषमुपैति दिव्यम् ॥  08 :10

श्री भगवानुवाच

प्रलपन् विसृजन् गृह्णन् उन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥  05 :9

श्री भगवानुवाच

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये ।
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ॥  18 :30

श्री भगवानुवाच

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥  16 :7

श्री भगवानुवाच

प्रशान्त मनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्त रजसं ब्रह्मभूतमकल्मषम् ॥  06 :27

श्री भगवानुवाच

प्रशान्तात्मा विगतभीः ब्रह्मचारि व्रते स्थितः ।
मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ॥  06 :14

श्री भगवानुवाच

प्रसादे सर्वदुःखानां हानिरस्योपजायते ।
प्रसन्न चेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥  02 :65

श्री भगवानुवाच

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् ।
मृगानां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥  10 :30

श्री भगवानुवाच

प्राप्य पुण्य कृतां लोकान् उषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥  06 :41

श्री भगवानुवाच

बन्धुरात्मात्मनस्तस्य येनात्मैनात्मना जितः ।
        अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥  06 :6

श्री भगवानुवाच

बलं बलवतां चाहं काम राग विवर्जितम् ।
धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ॥   07 :11

श्री भगवानुवाच

बहिरन्तश्च भूतानां अचरं चरमेव च ।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ॥  13 :15

श्री भगवानुवाच

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ॥  07 :19

श्री भगवानुवाच

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
        तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ॥  04 :5

श्री भगवानुवाच

बाह्य स्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् ।
        स ब्रह्मयोग युक्तात्मा सुखमक्षयमश्नुते ॥  05 :21

श्री भगवानुवाच

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् ।
बुद्धिर्बुद्धिमतामस्मि तेजस् तेजस्विनामहम् ॥   07 :10

श्री भगवानुवाच

बुद्धियुक्तो जहातीह उभे सुकृत दुष्कृते ।
        तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥  02 :50

श्री भगवानुवाच

बुद्धिर्ज्ञानं असम्मोहः क्षमा सत्यं दमः शमः ।
सुखं दुःखं भवोऽभावो भयं चाभयमेव च ॥  10 :4

श्री भगवानुवाच

बुद्धिर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु ।
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥  18 :29

श्री भगवानुवाच

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च ।
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषो व्युदस्य च ॥  18 :51

श्री भगवानुवाच

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् ।
मासानां मार्गशीर्षोऽहं ऋतूनां कुसुमाकरः ॥  10 :35

श्री भगवानुवाच

ब्रह्मणो हि प्रतिष्ठाहं अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥  14 :27

श्री भगवानुवाच

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
        लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥  05 :10

श्री भगवानुवाच

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ।
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥  18 :54

श्री भगवानुवाच

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् ।
        ब्रह्मैव तेन गन्तव्यं ब्रह्म कर्म समाधिना ॥  04 :24

श्री भगवानुवाच

ब्राह्मण क्षत्रिय विशां शूद्राणां च परन्तप ।
कर्माणि प्रविभक्तानि स्वभाव प्रभवैर्गुणैः ॥  18 :41

श्री भगवानुवाच

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुम् च तत्त्वेन प्रवेष्टुं च परन्तप ॥  11 :54

श्री भगवानुवाच

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः ।
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥  18 :55

श्री भगवानुवाच

भयाद् रणादुपरतं मंस्यन्ते त्वां महारथाः ।
येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ॥  02 :35

सञ्जय उवाच

भवान् भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः ।
अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः ॥  01 :8

अर्जुन उवाच

भवाप्ययौहि भूतानां श्रुतौ विस्तरशो मया ।
त्वत्तः कमल पत्राक्ष माहात्म्यमपि चाव्ययम् ॥  11 :2

सञ्जय उवाच

भीष्म द्रोण प्रमुखतः सर्वेषां च महीक्षिताम् ।
उवाच पार्थ पश्यैतान् समवेतान् कुरूनिति ॥  01 :25

श्री भगवानुवाच

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते ।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥  08 :19

श्री भगवानुवाच

भूमिरापोऽ नलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥  07 :4

श्री भगवानुवाच

भूय एव महाबाहो श्रुणु मे परमं वचः ।
यत्तेऽहं प्रीयमाणाय वक्ष्यामि हित काम्यया ॥  10 :1

श्री भगवानुवाच

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥  05 :29

श्री भगवानुवाच

भोगैश्वर्य प्रसक्तानां तयापहृत चेतसाम् ।
व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ॥  02 :44

श्री भगवानुवाच

मच्चिता मद्गतप्राणा बोधयन्तः परस्परम् ।
कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ॥  10 :9

श्री भगवानुवाच

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि ।
अथ चेत् त्वमहङ्कारान् न श्रोष्यसि विनङ्क्ष्यसि ॥  18 :58

श्री भगवानुवाच

मत्कर्म कृन्मत्परमो मद्भक्तः सङ्ग वर्जितः ।
निर्वैरः सर्व भूतेषु यः स मामेति पाण्डव ॥  11 :55

श्री भगवानुवाच

मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय ।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥   07 :7

अर्जुन उवाच

मदनुग्रहाय परमं गुह्यमध्यात्म संज्ञितम्।
यत्त्वयोक्तम् वचस्तेन मोहोऽयं विगतो मम॥  11 :1

श्री भगवानुवाच

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत् तपो मानसमुच्यते ॥  17 :16

श्री भगवानुवाच

मनुष्याणां सहस्रेषु कश्चिद् यतति सिद्धये ।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ॥  07 :3

श्री भगवानुवाच

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवं आत्मानं मत् परायणः ॥  09 :34

श्री भगवानुवाच

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसिमे ॥   18 :65

अर्जुन उवाच

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो ।
योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥  11 :4

श्री भगवानुवाच

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥  14 :3

श्री भगवानुवाच

ममैवांशो जीवलोके जीवभूतः सनातनः ।
मनः षठानीन्द्रियाणि प्रकृस्थानि कर्षति ॥  15 :7

श्री भगवानुवाच

मया ततमिदं सर्वं जगदव्यक्त मूर्तिना ।
मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ॥  09 :4

श्री भगवानुवाच

मया प्रसन्नेन तवार्जुनेदं
         रूपं परं दर्शितात्मयोगात् ।
तेजोमयं विश्वमनन्तमाद्यं
         यन्मे त्वदन्येन न दृष्टपूर्वम् ॥  11 :47

श्री भगवानुवाच

मयाध्यक्षेण प्रकृतिः सूयते स चराचरम् ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥  09 :10

श्री भगवानुवाच

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्त देश सेवित्वं अरतिर्जनसंसदि ॥  13 :10

श्री भगवानुवाच

मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा ।
निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ॥  03 :30

श्री भगवानुवाच

मय्यावेश्य मनो ये मां नित्य युक्ता उपासते ।
श्रद्धया परयोपेताः ते मे युक्ततमा मताः ॥  12 :2

श्री भगवानुवाच

मय्यासक्तमनाः पार्थ योगं युञ्जन् मदाश्रयः ।
असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥  07 :1

श्री भगवानुवाच

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ॥  12 :8

श्री भगवानुवाच

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ॥ 10 :6

श्री भगवानुवाच

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् ।
यज्ञानां जप यज्ञोऽस्मि स्थावराणां हिमालयः ॥  10 :25

श्री भगवानुवाच

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः ।
भजन्त्यनन्य मनसो ज्ञात्वा भूतादिमव्ययम् ॥  09 :13

श्री भगवानुवाच

महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रिय गोचराः ॥  13 :5

श्री भगवानुवाच

मा ते व्यथा मा च विमूढ भावो
        दृष्ट्वा रूपं घोरमीदृङ्ममेदं ।
व्यपेतभीः प्रीतमनाः पुनस्त्वं
         तदेव मे रूपमिदं प्रपश्य ॥  11 :49

श्री भगवानुवाच

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान् ब्रह्म भूयाय कल्पते ॥  14 :26

श्री भगवानुवाच

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रः तेऽपि यान्ति परां गतिम् ॥  09 :32

श्री भगवानुवाच

मात्रा स्पर्शास्तु कौन्तेय शीतोष्ण सुख दुःखदाः ।
आगमापायिनोऽ नित्याः तांस् तितिक्षस्व भारत ॥  02 :14

श्री भगवानुवाच

मानापमानयोस्तुल्यः तुल्यो मित्रारि पक्षयोः ।
सर्वारम्भ परित्यागी गुणातीतः स उच्यते ॥  14 :25

श्री भगवानुवाच

मामुपेत्य पुनर्जन्म दुःखालयं अशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥  08 :15

श्री भगवानुवाच

मुक्तसङ्गोऽ नहंवादी धृत्युत्साह समन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते ॥  18 :26

श्री भगवानुवाच

मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥  17 :19

श्री भगवानुवाच

मृत्युः सर्वहरश्चाहं उद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥  10 :34

श्री भगवानुवाच

मोघाशा मोघ कर्माणो मोघ ज्ञान विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥  09 :12

श्री भगवानुवाच

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणान्समतीत्यैतान् ब्रह्म भूयाय कल्पते ॥  14 :26

श्री भगवानुवाच

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रः तेऽपि यान्ति परां गतिम् ॥  09 :32

श्री भगवानुवाच

मात्रा स्पर्शास्तु कौन्तेय शीतोष्ण सुख दुःखदाः ।
आगमापायिनोऽ नित्याः तांस् तितिक्षस्व भारत ॥  02 :14

श्री भगवानुवाच

मानापमानयोस्तुल्यः तुल्यो मित्रारि पक्षयोः ।
सर्वारम्भ परित्यागी गुणातीतः स उच्यते ॥  14 :25

श्री भगवानुवाच

मामुपेत्य पुनर्जन्म दुःखालयं अशाश्वतम् ।
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥  08 :15

श्री भगवानुवाच

मुक्तसङ्गोऽ नहंवादी धृत्युत्साह समन्वितः ।
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते ॥  18 :26

श्री भगवानुवाच

मूढग्राहेणात्मनो यत् पीडया क्रियते तपः ।
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥  17 :19

श्री भगवानुवाच

मृत्युः सर्वहरश्चाहं उद्भवश्च भविष्यताम् ।
कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा ॥  10 :34

श्री भगवानुवाच

मोघाशा मोघ कर्माणो मोघ ज्ञान विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥  09 :12

श्री भगवानुवाच

यज्ञशिष्टासिनः सन्तो मुच्यन्ते सर्व किल्बिषैः ।
भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ॥  03 :13

श्री भगवानुवाच

यज्ञार्थात्कर्मणोऽ न्यत्र लोकोऽयं कर्मबन्धनः ।
तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ॥  03 :9

श्री भगवानुवाच

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्म चैव तदर्थीयं सदित्येवाभिधीयते ॥  17 :27

श्री भगवानुवाच

यतः प्रवृत्ति भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥  18 :46

श्री भगवानुवाच

यततो ह्यपि कौन्तेय पुरुषस्य विपञ्चितः ।
इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ॥  02 :60

श्री भगवानुवाच

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितं ।
यतन्त्योऽप्यकृतात्मानो नैनं पश्यन्त्य चेतसः ॥  15 :11

श्री भगवानुवाच

यतेन्द्रिय मनो बुद्धिर् मुनिर्मोक्ष परायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥  05 :28

श्री भगवानुवाच

यतो यतो निश्चरति मनश्च्ञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतद् आत्मन्यैव वशं नयेत् ॥  06 :26

श्री भगवानुवाच

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ॥  09 :27

श्री भगवानुवाच

यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः ।
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥  18 :24

श्री भगवानुवाच

यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहैतुकम् ।
अतत्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥  18 :22

श्री भगवानुवाच

यत्तु प्रत्युपकारार्थं फलमुद्धिश्य वा पुनः ।
दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ॥  17 :21

श्री भगवानुवाच

यत्र काले त्वनावृत्तिं आवृत्तिं चैव योगिनः ।
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥  08 :23

सञ्जय उवाच

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिःध्रुवा नीतिर्मतिर्मम ॥  18 :78

श्री भगवानुवाच

यत्रो परमते चित्तं निरुद्धं योग सेवया ।
यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥  06 :20

श्री भगवानुवाच

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ॥  05 :5

श्री भगवानुवाच

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यत चित्तस्य युञ्जतो योगमात्मनः ॥  06 :19

अर्जुन उवाच

यथा नदीनां बहवोऽम्बुवेगाः
         समुद्रमेवाभिमुखा द्रवन्ति ।
तथा तवामी नरलोक वीरा
        विशन्ति वक्त्राण्यभिविज्वलन्ति ॥  11 :28

श्री भगवानुवाच

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥  13 :33

अर्जुन उवाच

यथा प्रदीप्तं ज्वलनं पतङ्गाः
        विशन्ति नाशाय समृद्ध वेगाः ।
तथैव नाशाय विशन्ति लोकाः
        तवापि वक्त्राणि समृद्ध वेगाः ॥  11 :29

श्री भगवानुवाच

यथा सर्वगतं सौक्ष्म्यात् आकाशं नोपलिप्यते ।
सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ॥  13 :32

श्री भगवानुवाच

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥  09 :6

श्री भगवानुवाच

यथैधांसि समिद्धोऽग्निः भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥  04 :37

श्री भगवानुवाच

यदक्षरं वेदविदो वदन्ति
         विशन्ति यद्यतयो वीतरागः ।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
         तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ 08 :11

श्री भगवानुवाच

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः ।
निद्रालस्य प्रमादोत्थं तत्तामसमुदाहृतम् ॥  18 :39

श्री भगवानुवाच

यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे ।
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥  18 :59

श्री भगवानुवाच

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥  02 :52

श्री भगवानुवाच

यदा भूत पृथग्भावं एकस्थं अनुपश्यति ।
तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ॥  13 :30

श्री भगवानुवाच

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥  04 :7

श्री भगवानुवाच

यदा विनियतं चित्तं आत्मन्येवावतिष्ठते ।
निःस्पृहः सर्व कामेभ्यो युक्त इत्युच्यते तदा ॥  06 :18

श्री भगवानुवाच

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता ॥  02 :58

श्री भगवानुवाच

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देह भृत् ।
तदोत्तमविदां लोकान् अमलान् प्रतिपद्यते ॥  14 :14

श्री भगवानुवाच

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।
सर्व सङ्कल्प सन्न्यासी योगारूढस्तदोच्यते ॥  06 :4

श्री भगवानुवाच

यदादित्यगतं तेजो जगद्भासयतेऽखिलं ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥  15 :12

अर्जुन उवाच

यदि मां अप्रतीकारं अशस्त्रं शस्त्र पाणयः ।
धार्तराष्ट्रा रणे हन्युः तन्मे क्षेमतरं भवेत् ॥  01 :46

श्री भगवानुवाच

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥  03 :23

श्री भगवानुवाच

यदृच्छया चोपपन्नं स्वर्ग द्वारमपावृतम् ।
सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ॥  02 :32

श्री भगवानुवाच

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥ 04 :22

श्री भगवानुवाच

यद्यदाचरति श्रेष्ठः तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥  03 :21

श्री भगवानुवाच

यद्यद्विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोऽंश संभवम् ॥  10 :41

अर्जुन उवाच

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ।
कुलक्षय कृतं दोषं मित्रद्रोहे च पातकम् ॥  01 :38

श्री भगवानुवाच

यया तु धर्म कामार्थान् धृत्या धारयतेऽर्जुन ।
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥  18 :34

श्री भगवानुवाच

यया धर्ममधर्मं च कार्यं चाकार्यमेव च ।
अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी ॥  18 :31

श्री भगवानुवाच

यया स्वप्नं भयं शोकं विषादं मदमेव च ।
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥  18 :35

श्री भगवानुवाच

यस्त्वात्मरतिरेव स्यात् आत्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टः तस्य कार्य न विद्यते ॥  03 :17

श्री भगवानुवाच

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन ।
कर्मेन्द्रियैः कर्मयोगं असक्तः स विशिष्यते ॥  03 :7

श्री भगवानुवाच

यस्मात्क्षरमतीतोऽहं अक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥  15 :18

श्री भगवानुवाच

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।
हर्षामर्ष भयोद्वेगैः मुक्तो यः स च मे प्रियः ॥  12 :15

श्री भगवानुवाच

यस्य सर्वे समारम्भाः कामसङ्कल्प वर्जिताः ।
ज्ञानाग्निदग्ध कर्माणं तमाहुः पण्डितं बुधाः ॥  04 :19

श्री भगवानुवाच

यस्या नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । 
हत्वापि न इमान् लोकान् न हन्ति न निबध्यते ॥  18 :17

श्री भगवानुवाच

या निशा सर्वभूतानां तस्यां जागर्ति संयमी ।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥  02 :69

श्री भगवानुवाच

यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥  17 :10

श्री भगवानुवाच

यान्ति देवव्रता देवान् पितॄण्यान्ति पितृव्रताः ।
भुतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ॥ 09 :25

श्री भगवानुवाच

यामिमां पुष्पितां वाचं प्रवदन्त्य विपञ्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ॥  02 :42

श्री भगवानुवाच

यावत् सञ्जायते किञ्चित् सत्त्वं स्थावर जङ्गमम् ।
क्षेत्र क्षेत्रज्ञ संयोगात् तद् विद्धि भरतर्षभ ॥  13 :26

अर्जुन उवाच

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् ।
कैर्मया सह योद्धव्यं अस्मिन् रण समुद्यमे ॥  01 :22

श्री भगवानुवाच

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥  02 :46

श्री भगवानुवाच

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥  05 :12

श्री भगवानुवाच

युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्त स्वप्नावबोधस्य योगो भवति दुःखहा ॥  06 :17

श्री भगवानुवाच

युञ्जन्नेवं सदात्मानं योगी नियत मानसः ।
शान्तिं निर्वाण परमां मत्संस्थामधिगच्छति ॥  06 :15

श्री भगवानुवाच

युञ्जन्नेवं सदात्मानं योगी विगत कल्मषः ।
सुखेन ब्रह्म संस्पर्शं अत्यन्तं सुखमश्नुते ॥  06 :28

सञ्जय उवाच

युधामन्युःच विक्रान्त उत्तमौजाश्च वीर्यवान् ।
सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥  01 :6

श्री भगवानुवाच

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान् विद्धि न त्वहं तेषु ते मयि ॥  07 :12

श्री भगवानुवाच

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ॥  12 :20

श्री भगवानुवाच

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥  12 :6

श्री भगवानुवाच

ये त्वक्षरं अनिर्देश्यं अव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थं अचलं ध्रुवम् ॥  12 :3

श्री भगवानुवाच

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् ।
सर्वज्ञान विमूढांस्तान् विद्धि नष्टानचेतसः ॥  03 :32

श्री भगवानुवाच

ये मे मतमिदं नित्यं अनुतिष्ठन्ति मानवाः ।
श्रद्धावन्तोऽ नुसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ॥  03 :31

श्री भगवानुवाच

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् ।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ॥  04 :11

अर्जुन उवाच

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः ।
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥  17 :1

श्री भगवानुवाच

ये हि संस्पर्शजा भोगा दुःख योनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥  05 :22

श्री भगवानुवाच

येऽप्यन्य देवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्य विधिपूर्वकम् ॥  09 :23

श्री भगवानुवाच

येषां त्वन्तगतं पापं जनानां पुण्य कर्मणाम् ।
ते द्वन्द्व मोह निर्मुक्ता भजन्ते मां दृढव्रताः ॥  07 :28

अर्जुन उवाच

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च ।
त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥  01 :33

श्री भगवानुवाच

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति ।
शुभाशुभ परित्यागी भक्तिमान् यः स मे प्रियः ॥  12 :17

श्री भगवानुवाच

यो मां अदं अनादिं च वेत्ति लोक महेश्वरम् ।
असम्मुढः स मर्त्येषु सर्व पापैः प्रमुच्यते ॥  10 :3

श्री भगवानुवाच

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥  06 :30

श्री भगवानुवाच

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥  15 :19

श्री भगवानुवाच

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥  07 :21

श्री भगवानुवाच

योऽ न्तः सुखोन्तरारामः तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्म भूतोऽधिगच्छति ॥  05 :24

अर्जुन उवाच

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात् स्थितिम् स्थिरम् ॥6:33

श्री भगवानुवाच

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥  05 :7

श्री भगवानुवाच

योगसन्न्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ॥  04 :41

श्री भगवानुवाच

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥  02 :48

श्री भगवानुवाच

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥  06 :47

श्री भगवानुवाच

योगी युञ्जीत सततं आत्मानं रहसि स्थितः ।
एकाकी यत चित्तात्मा निराशीरपरिग्रहः ॥  06 :10

अर्जुन उवाच

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः ।
धार्तराष्ट्रस्य दुर्भुद्धेः युद्धे प्रिय चिकीर्षवः ॥  01 :23

श्री भगवानुवाच

रजसि प्रलयं गत्वा कर्म सङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥  14 :15

श्री भगवानुवाच

रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥  14 :10

श्री भगवानुवाच

रजो रागात्मकं विद्धि तृष्णा सङ्ग समुद्भवम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥  14 :7

श्री भगवानुवाच

रसोऽहमप्सु कौन्तेय प्रभाऽस्मि शशि सूर्ययोः ।
प्रणवः सर्व वेदेषु शब्दः खे पौरुषं नृषु ॥   07 :8

श्री भगवानुवाच

राग द्वेष वियुक्तैस्तु विषयानिन्द्रियैश्चरन् ।
आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥  02 :64

श्री भगवानुवाच

रागी कर्मफलप्रेप्सुः लुब्धो हिम्सात्मकोऽ शुचिः ।
हर्ष शोकान्वितः कर्ता राजसः परिकीर्तितः  ॥  18 :27

सञ्जय उवाच

राजन् संस्मृत्य संस्मृत्य संवादमिममद्भुतम् ।
केशवार्जुनयोः पुण्यं  हृष्यामि च मुहुर्मुहुः ॥  18 :76

श्री भगवानुवाच

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् ।
प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ॥  09 :2

श्री भगवानुवाच

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् ।
वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥  10 :23

अर्जुन उवाच

रुद्रादित्या वसवो ये च साध्याः
       विश्वेऽश्विनौ मरुतश्चोष्मपाश्च ।
गन्धर्व यक्षासुर सिद्ध सङ्घा
       वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥  11 :22

अर्जुन उवाच

रूपं महत्ते बहु वक्त्र नेत्रं
        महाबाहो बहु बाहू रूप पादम् ।
बहूदरं बहु दंष्ट्रा करालं
         दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥ 11 :23

श्री भगवानुवाच

लभन्ते ब्रह्मनिर्वाणं ऋषयः क्षीण कल्मषाः ।
        छिन्नद्वैधा यतात्मानः सर्वभूतहितेरताः ॥  05 :25

अर्जुन उवाच

लेलिह्यसे ग्रसमानः समन्तात्
        लोकान् समग्रान् वदनैर्ज्वलद्भिः ।
तेजोभिरापूर्य जगत्समग्रं
        भासस्तवोग्राः प्रतपन्ति विष्णो ॥  11 :30

श्री भगवानुवाच

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयाऽ नघ ।ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ॥  03 :3

श्री भगवानुवाच

लोभः प्र्वृत्तिरारम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥  14 :12

अर्जुन उवाच

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकान् इमांस्त्वं व्याप्य जायते ॥  10 :16

अर्जुन उवाच

वक्त्राणि ते त्वरमाणा विशन्ति 
        दंष्ट्राकरालानि भयानकानि ।
केचिद्विलग्ना दशनान्तरेषु
        सन्दृष्यन्ते चूर्णितैरुत्तमाङ्गैः ॥  11 :27

श्री भगवानुवाच

वसांसि जीर्णानि यथा विहाय
         नवानि गृह्णाति नरोऽपराणि ।       
तथा शरीराणि विहाय जीर्णानि
         अन्यानि संयाति नवानि देही ॥  02 :22

अर्जुन उवाच

वायुर्यमोऽग्निर्वरुणः शशाङ्कः
       प्रजापतिस्त्वं प्रपितामहश्च ।
नमो नमस्तेस्तु सहस्र कृत्वः
       पुनश्च भूयोऽपि नमो नमस्ते ॥  11 :39

श्री भगवानुवाच

विद्या विनय संपन्ने ब्राह्मणे गवि हस्तिनि ।
शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥  05 :18

श्री भगवानुवाच

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् ।
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ॥  17 :13

श्री भगवानुवाच

विविक्तसेवी लघ्वाशी यतवाक्काय मानसः ।
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥  18 :52

श्री भगवानुवाच

विषया विनिवर्तन्ते निराहारस्य देहिनः ।
रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥  02 :59

श्री भगवानुवाच

विषयेन्द्रिय संयोगात् यत्तदग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥  18 :38

अर्जुन उवाच

विस्तरेणात्मनो योगं विभूतिं च जनार्दन ।
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मे मतम् ॥  10 :18

श्री भगवानुवाच

विहाय कामान् यः सर्वान् पुमांश्चरति निःस्पृहः ।
निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ॥  02 :71

श्री भगवानुवाच

वीत राग भय क्रोधा मन्मया मामुपाश्रिताः ।
बहवो ज्ञान तपसा पूता मद्भावमागताः ॥  04 :10

श्री भगवानुवाच

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः ।
मुनीनामप्यहं व्यासः कवीनां उशना कविः ॥  10 :37

श्री भगवानुवाच

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः ।
इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ॥  10 :22

श्री भगवानुवाच

वेदाविनाशिनं नित्यं य एनमजमव्ययम् ।
कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ॥  02 :21

श्री भगवानुवाच

वेदाहं समतीतानि वर्तमानानि चार्जुन ।
भविष्याणि च भूतानि मां तु वेद न कश्चन ॥  07 :26

श्री भगवानुवाच

वेदेषु यज्ञेशु तपः सु चैव
          दानेषु यत्पुण्य फलं प्रदिष्टम् ।
अत्येति तत्सर्वमिदं विदित्वा
          योगी परं स्थानमुपैति चाद्यम् ॥  08 :28

श्री भगवानुवाच

व्यवसायात्मिका बुद्धिः एकेह कुरुनन्दन ।
बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ॥  02 :41

अर्जुन उवाच

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे ।
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥  03 :2

सञ्जय उवाच

व्यासप्रसादाच्छ्रुतवान् एतद्गुह्यमहं परम् ।
योगं योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् ॥  18 :75

श्री भगवानुवाच

शक्नोतीहैव यः सोढुं प्राक्शरीर विमोक्षणात् ।

काम क्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥  05 :23

श्री भगवानुवाच

शनैः शनैरुपरमेद् बुद्ध्या धृति गृहीतया ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥  06 :25

श्री भगवानुवाच

शमोदमस्तपः शौचं क्षान्तिरार्जवमेव च ।
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥  18 :42

श्री भगवानुवाच

शरीर वाङ्मनोभिर्यत् कर्म प्रारभते नरः ।
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥   18 :15

श्री भगवानुवाच

शरीरं यदवाप्नोति यच्चामुत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥  15 :8

श्री भगवानुवाच

शुक्ल कृष्णे गती ह्येते जगतः शाश्वते मते ।
एकया यात्यनावृत्तिं अन्ययावर्तते पुनः ॥  08 :26

श्री भगवानुवाच

शुचौ देशे प्रतिष्ठाय स्थिरमासनमात्मनः ।
नात्युच्छ्रितं नाति नीचं चैलाजिनकुशोत्तरम् ॥  06 :11

श्री भगवानुवाच

शुभाशुभ फलेरैवं मोक्ष्यसे कर्म बन्धनैः ।
सन्न्यासयोग युक्तात्मा विमुक्तो मामुपैष्यसि ॥  09 :28

श्री भगवानुवाच

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् ।
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥  18 :43

श्री भगवानुवाच

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।
अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥  17 :17

श्री भगवानुवाच

श्रद्धानुरूपा सर्वस्य श्रद्धा भवति भारत ।
श्रद्धामयोऽयं पुरुषः यो यच्छ्रद्धः स एव सः ॥  17 :3

श्री भगवानुवाच

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः ।
ज्ञानं लब्ध्वा परां शान्तिं अचिरेणाधिगच्छति ॥  04 :39

श्री भगवानुवाच

श्रद्धावाननसूयश्च श्रुणुयादपि यो नरः ।
सोऽपि मुक्तः शुभाँ लोकान् प्राप्नुयात् पुण्य कर्मणाम् ॥  18 :71

श्री भगवानुवाच

श्रुति विप्रतिपन्ना ते यदा स्थास्यति निश्चला ।
समाधावचला बुद्धिः तदा योगमवाप्स्यसि ॥  02 :53

श्री भगवानुवाच

श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥  03 :35

श्री भगवानुवाच

श्रेयान्द्रव्यमयाद्यज्ञात् ज्ञानयज्ञः परन्तप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥  04 :33

श्री भगवानुवाच

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वभाव नियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥  18 :47

श्री भगवानुवाच

श्रेयो हि ज्ञानमभ्यासात् ज्ञानाद् ध्यानं विशिष्यते ।
ध्यानात् कर्म फल त्यागः त्यागाच्छान्तिरनन्तरम् ॥12 :12

श्री भगवानुवाच

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥  15 :9

श्री भगवानुवाच

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥  04 :26

सञ्जय उवाच

श्वशुरान् सुहृदश्चैव सेनयोरुभयोरपि ।
तान् समीक्ष्य स कौन्तेयः सर्वान् बन्धूनवस्थितान् ॥01 :27

श्री भगवानुवाच

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥  04 :3

सञ्जय उवाच

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥  01 :19

श्री भगवानुवाच

स तया श्रद्धया युक्तः तस्याराधनमीहते ।
लभते च ततः कामान् मयैव विहितान्हि तान् ॥  07 :22

श्री भगवानुवाच

सक्ताः कर्मण्य विद्वांसो यथा कुर्वन्ति भारत ।
कुर्याद्विद्वांस्तथाऽसक्तः चिकीर्षुर्लोकसङ्ग्रहम् ॥3 :25

अर्जुन उवाच

सखेति मत्वा प्रसभं यदुक्तं
        हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं
        मया प्रमादात् प्रणयेन वापि ॥  11 :41

अर्जुन उवाच

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।
पतन्ति पितरो ह्येषां लुप्त पिण्डोदक क्रियाः ॥  01 :42

श्री भगवानुवाच

सङ्कल्प प्रभवान्कामाम्स् त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ 06 :24

श्री भगवानुवाच

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः ।
नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ॥  09 :14

श्री भगवानुवाच

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् ।
क्रियते तदिहं प्रोक्तं राजसं चलमध्रुवम् ॥  17 :18

श्री भगवानुवाच

सत्त्वं रजस्तम इति गुणाः प्रकृति सम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥  14 :5

श्री भगवानुवाच

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥  14 :9

श्री भगवानुवाच

सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमाद मोहौ तमसो भवतोऽज्ञानमेव च ॥  14 :17

श्री भगवानुवाच

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि ।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ॥  03 :33

श्री भगवानुवाच

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते ।
प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥  17 :26

श्री भगवानुवाच

सन्तुष्टः सततं योगी यतात्मा दृढ निश्चयः ।
मय्यर्पित मनो बुद्धिः यो मद्भक्तः स मे प्रियः ॥  12 :14

श्री भगवानुवाच

सन्नियम्येन्द्रिय ग्रामं सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥  12 :4

अर्जुन उवाच

सन्न्यासं कर्मणा कृष्ण पुनर्योगं न शंससि ।
यच्छ्रेयं एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥  05 :1

श्री भगवानुवाच

सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसन्न्यासात् कर्मयोगो विशिष्यते ॥  05 :2

श्री भगवानुवाच

सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥  05 :6

अर्जुन उवाच

सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् ।
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥  18 :1

श्री भगवानुवाच

सम दुःख सुख स्वस्थः सम लोष्टाश्मकाञ्चनः ।
तुल्य प्रियाप्रियो धीरः तुल्य निन्दात्म संस्तुतिः ॥  14 :24

श्री भगवानुवाच

समं काय शिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥  06 :13

श्री भगवानुवाच

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् ।
न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ॥  13 :28

श्री भगवानुवाच

समं सर्वेषु भुतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥  13 :27

श्री भगवानुवाच

समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्ण सुख दुःखेषु समः सङ्ग विवर्जितः ॥  12 :18

श्री भगवानुवाच

समोऽहं सर्व भूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥  09 :29

श्री भगवानुवाच

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन ।
अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ॥  10 :32

श्री भगवानुवाच

सर्व द्वारेषु देहेऽस्मिन् प्रकाश उपजायते ।
ज्ञानं यदा तदा विद्यात् विवृद्धं सत्त्वमित्युत ॥  14 :11

श्री भगवानुवाच

सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देहि नैव कुर्वन्न कारयन् ॥  05 :13

श्री भगवानुवाच

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥  18 :56

श्री भगवानुवाच

सर्वगुह्यतमं भूयः श्रुणु मे परमं वचः ।
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥  18 :64

श्री भगवानुवाच

सर्वतः पाणिपादं तत् सर्वतोऽक्षि शिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥  13 :13

श्री भगवानुवाच

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च ।
मूर्ध्न्याधायात्मनः प्राणं आस्थितो योग धारणाम् ॥  08 :12

श्री भगवानुवाच

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ।
अहं त्वां सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥  18 :66

श्री भगवानुवाच

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योग युक्तात्मा सर्वत्र समदर्शनः ॥  06 :29

श्री भगवानुवाच

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥  06 :31

श्री भगवानुवाच

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् ।
कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥  09 :7

श्री भगवानुवाच

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् ॥  18 :20

अर्जुन उवाच

सर्वमेतद्दृतं मन्ये यन्मां वदसि केशव ।
न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ॥  10 :14

श्री भगवानुवाच

सर्वयोनिषु कौन्तेय मुर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिः अहं बीज प्रदः पिता ॥  14 :4

श्री भगवानुवाच

सर्वस्य चाहं हृदि सन्निविष्टो 

          मत्तः स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो 

           वेदान्तकृद्वेदविदेव चाहम् ॥  15 :15

श्री भगवानुवाच

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ॥  04 :27

श्री भगवानुवाच

सर्वेन्द्रिय गुणाभासं सर्वेन्द्रिय विवर्जितम् ।
असक्तं सर्व भृच्चैव निर्गुणं गुण भोक्तृ च ॥  13 :14

श्री भगवानुवाच

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् ।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥  18 :48

श्री भगवानुवाच

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः ।
अनेन प्रसविष्यध्वं येष वोऽस्त्विष्टकामधुक् ॥  03 :10

श्री भगवानुवाच

सहस्र युग पर्यन्तं अहर्यद् ब्रह्मणो विदुः ।
रात्रिं युग सहस्रान्तां तेऽहोरात्रविदो जनाः ॥   08 :17

श्री भगवानुवाच

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यग् उभयोर्विन्दते फलम् ॥  05 :4

श्री भगवानुवाच

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाण कालेऽपि च मां ते विदुर्युक्त चेतसः ॥  07 :30

श्री भगवानुवाच

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे ।
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥  18 :50

अर्जुन उवाच

सीदन्ति मम गात्राणि मुखं च परिशुष्यति ।
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥  01 :29

श्री भगवानुवाच

सुख दुःखे समे कृत्वा लाभालाभौ जयाजयौ ।
ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ॥  02 :38

श्री भगवानुवाच

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ ।
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥  18 :36

श्री भगवानुवाच

सुखमात्यन्तिकं यत् तद् बुद्धि ग्राहमतीन्द्रियम् ।
वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥  06 :21

श्री भगवानुवाच

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।
देवा अप्यस्य रूपस्य नित्यं दर्शन काङ्क्षिणः ॥  11 :52

श्री भगवानुवाच

सुहृन्मित्रार्युदासीन मध्यस्थ द्वेष्य बन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥  06 :9

अर्जुन उवाच

स्थाने हृषीकेश तव प्रकीर्त्या
       जगत्प्रहृष्यन्ति अनुरज्यते च ।
रक्षांसि भीतानि दिशो द्रवन्ति
       सर्वे नमस्यन्ति च सिद्ध सङ्घाः ॥  11 :36

अर्जुन उवाच

स्थित प्रज्ञस्य का भाषा समाधिस्थस्य केशव ।

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ॥  02 :54

श्री भगवानुवाच

स्पर्शान्कृत्वा बहिर्बाह्यांश् चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तर चारिणौ ॥  05 :27

श्री भगवानुवाच

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि ।
धर्म्याद्धि युद्धाच्छ्रेयोऽ न्यत् क्षत्रियस्य न विद्यते ॥  02 :31

श्री भगवानुवाच

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा ।
कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥18 :60

अर्जुन उवाच

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम ।
भूत भावन देवेश देव देव जगत्पते ॥  10 :15

श्री भगवानुवाच

स्वे स्वे कर्मण्यभिरतः  संसिद्धिं लभते नरः ।
स्वकर्मनिरतः सिद्धिं यथा विन्दति तत्शृणु  ॥  18 :45

श्री भगवानुवाच

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् ।
तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृत निश्चयः ॥  02 :37

श्री भगवानुवाच

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरु श्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥  10 :19

सञ्जय उवाच
हृषीकेशं तदा वाक्यं इदमाह महीपते ।        01 :21

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥  01 :21

 

श्री भगवानुवाच

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रति जानीहि न मे भक्तः प्रणश्यति ॥  09 :31

श्री भगवानुवाच

क्षेत्र क्षेत्रज्ञयोरेवं अन्तरं ज्ञान चक्षुषा ।
भूत प्रकृति मोक्षं च ये विदुर्यान्ति ते परम् ॥  13 :34

श्री भगवानुवाच

क्षेत्रज्ञं चापि मां विद्धि सर्व क्षेत्रेषु भारत ।
क्षेत्र क्षेत्रज्ञयोर्ज्ञानं यत् तज्ज्ञानं मतं मम ॥  13 :2

श्री भगवानुवाच

त्रिभिर्गुणमयैर्भावैः एभिः सर्वमिदं जगत् ।
मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥  07 :13

श्री भगवानुवाच

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभः तस्मादेतत्त्रयं त्यजेत् ॥  16 :21

श्री भगवानुवाच

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
सत्त्विकी राजसी चैव तामसी चेति तां शृणु ॥  17 :2

श्री भगवानुवाच

त्रैगुण्य विषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्य सत्त्वस्थो निर्योगक्षेम आत्मवान् ॥  02 :45

श्री भगवानुवाच

त्रैविद्या मां सोमपाः पूतपापा
         यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्र लोकं
        अश्नन्ति दिव्यान्दिवि देवभोगान् ॥  09 :20

श्री भगवानुवाच

ज्ञान विज्ञान तृप्तात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्म काञ्चनः ॥  06 :8

श्री भगवानुवाच

ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः ।
प्रोच्यते गुण सङ्ख्याने यथावच्छृणु तान्यपि ॥  18 :19

श्री भगवानुवाच

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
करणं कर्म कर्तेति त्रिविधः कर्म सङ्ग्रहः ॥  18 :18

श्री भगवानुवाच

ज्ञानं तेऽहं सविज्ञानं इदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽ न्यत् ज्ञातव्यं अवशिष्यते ॥  07 :2

श्री भगवानुवाच

ज्ञानयज्ञेन चाप्यन्ते यजन्तो मामुपासते ।
एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥  09 :15

श्री भगवानुवाच

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥  05 :16

श्री भगवानुवाच

ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।
अनादि मत्परं ब्रह्म न सत् तन् नासदुच्यते ॥  13 :12

श्री भगवानुवाच

ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥  05 :3